Poora mantra ya paath, sample nahi
Jo item khulega uska complete indexed text EeseDharma ke andar hi dikhega.
Vedic / Upaniṣadic Mantra
100मेधाजननम्। १-४ अथर्वा। वाचस्पतिः। अनुष्टुप्, ४ चतुष्पदा विराडुरोबृहती। ये॑ त्रिषप्ताः प॑रि॒य॑न्ति वि॑श्वा रू॒पाणि॒ बिभ्र॑तः । वा॒चस्प॒तिर्बला॒ तेषां॑ तन्वो॒ अ॒द्य द॑धातु मे ॥१॥ पु॑नरे॑हि वचस्पते दे॒वेन॒ म॑नसा स॒ह। वसो॑ष्पते॒ नि र॑मय॒ मय्ये॒वास्तु॒ मयि॑ श्रु॒तम्॥२॥ इ॒हैवाभि॑ वि त॑नू॒भे आर्त्नी॑ इव॒ ज्य॑या । वा॒चस्पति॒र्नि य॑च्छतु॒ मय्ये॒वा॑स्तु॒ मयि॑ श्रु॒तम्॥३॥ उ॑पहूतो वा॒चस्पति॒रुपा॒स्मान् वा॒चस्प॑तिर्ह्वयताम्। सं श्रु॒तेन॑ गमेमहि॒ मा श्रु॒तेन॒ वि रा॑धिषि ॥४॥
›रोगोपशमनम्। अथर्वा। पर्जन्यः(१,४ पृथिवी, ३ इन्द्रः,(चन्द्रमाश्च))। अनुष्टुप्, ३ त्रिपदा विराण्नाम गायत्री। वि॒द्मा श॒रस्य॑ पि॒तरं॑ प॒र्जन्यं॒ भू॑रिधायसम्। वि॒द्मो ष्व॑स्य मा॒तरं॑ पृथि॒वीं भूरि॑वर्पसम्॥१॥ ज्याऽके॒ परि॑ णो न॒माश्मा॑नं त॒न्वं कृधि । वी॒डुर्वरी॒योऽरा॑ती॒रप॒ द्वेषां॒स्याऽकृ॑धि ॥२॥ वृ॒क्षं यद्गावः॑ परिषस्वजा॒ना अ॑नुस्फु॒रं श॒रमर्च॑न्त्यृ॒भुम्। शरु॑म॒स्मद्या॑वय दि॒द्युमि॑न्द्र ॥३॥ यथा॒ द्यां च॑ पृथि॒वीं चा॒न्तस्तिष्ठ॑ति॒ तेज॑नम्। ए॒वा रोगं॑ चास्रा॒वं चा॒न्तस्ति॑ष्ठतु॒ मुञ्ज॒ इत्॥४॥
›मूत्रमोचनम्। १-९ अथर्वा। १ पर्जन्यः, २ मित्रः, ३ वरुणः, ४ चन्द्रः, ५ सूर्यः, (१-९ मूत्रमोचनम्)। अनुष्टुप्, १-५ पथ्यापङ्क्तिः। वि॒द्मा श॒रस्य॑ पि॒तरं॑ प॒र्जन्यं॑ श॒तवृ॑ष्ण्यम् । तेना॑ ते त॒न्वे॒३शं क॑रं पृथि॒व्यां ते॑ नि॒षेच॑नं ब॒हिष्टे॑ अस्तु॒ बालिति॑ ॥१॥ वि॒द्मा श॒रस्य॑ पि॒तरं॑ मि॒त्रं श॒तवृ॑ष्ण्यम् । ते॑ना ते त॒न्वे॒३ शं क॑रं पृथि॒व्यां ते॑ नि॒षेच॑नं ब॒हिष्टे॑ अस्तु॒ बालिति॑ ॥२॥ वि॒द्मा श॒रस्य॑ पि॒तरं॒ वरु॑णं श॒तवृ॑ष्ण्यम् । तेना॑ ते त॒न्वे॒३ शं क॑रं पृथि॒व्यां ते॑ नि॒षेच॑नं ब॒हिष्टे॑ अस्तु॒ बालिति॑ ॥३॥ वि॒द्मा श॒रस्य॑ पि॒तरं॑ च॒न्द्रं श॒तवृ॑ष्ण्यम् । तेना॑ ते त॒न्वे॒३ शं क॑रं पृथि॒व्यां ते॑ नि॒षेच॑नं ब॒हिष्टे॑ अस्तु॒ बालिति॑ ॥४॥ वि॒द्मा श॒रस्य॑ पि॒तरं॒ सूर्यं॑ श॒तवृ॑ष्ण्यम् । तेना॑ ते त॒न्वे॒३ शं क॑रं पृथि॒व्यां ते॑ नि॒षेच॑नं ब॒हिष्टे॑ अस्तु॒ बालिति॑ ॥५॥ यदा॒न्त्रेषु॑ गवी॒न्योर्यद्व॒स्तावधि॒ संश्रु॑तम् । ए॒वा ते॒ मूत्रं॑ मुच्यतां ब॒हिर्बालिति॑ सर्व॒कम्॥६॥ प्र ते॑ भिनद्मि॒ मेह॑नं॒ वर्त्रं॑ वेश॒न्त्या इ॑व । ए॒वा ते॒ मूत्रं॑ मुच्यतां ब॒हिर्बालिति॑ सर्व॒कम्॥७॥ विषि॑तं ते वस्तिबि॒लं स॑मु॒द्रस्यो॑द॒धेरि॑व । ए॒वा ते॒ मूत्रं॑ मुच्यतां ब॒हिर्बालिति॑ सर्व॒कम्॥८॥ यथे॑षु॒का प॒राप॑त॒दव॑सृ॒ष्टाधि॒ धन्व॑नः । ए॒वा ते॒ मूत्रं॑ मुच्यतां ब॒हिर्बालिति॑ सर्व॒कम्॥९॥
›अपां भेषजम्। १-४ सिन्धुद्वीपः।(अपांनपात्, सोमः,) आपः। गायत्री, ४ पुरस्ताद् बृहती। अ॒म्बयो॑ य॒न्त्यध्व॑भिर्जा॒मयो॑ अध्वरीय॒ताम्। पृ॒ञ्च॒तीर्म॑धु॑ना॒ पयः॑ ॥१॥ अ॒मूर्या उप॒ सूर्ये॒ याभि॑र्वा॒ सूर्यः॑ स॒ह। ता नो॑ हिन्वन्त्वध्व॒रम्॥२॥ अ॒पो दे॒वीरुप॑ ह्वये॒ यत्र॒ गावः॒ पिब॑न्ति नः । सिन्धु॑भ्यः॒ कर्त्वं॑ ह॒विः ॥३॥ अ॒प्स्व॑१न्तर॒मृत॑म॒प्सु भे॑ष॒जम्। अ॒पामु॒त प्रश॑स्तिभि॒रश्वा॒ भव॑थ वा॒जिनो॒ गावो॑ भवथ वा॒जिनीः॑ ॥४॥
›अपां भेषजम्। १-४ सिन्धुद्वीपः।(अपांनपात्, सोमः,) आपः। गायत्री, ४ वर्धमाना। आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । म॒हे रणा॑य॒ चक्ष॑से ॥१॥ यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ । उ॒श॒तीरि॑व मा॒तरः॑ ॥२॥ तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः ॥३॥ ईशा॑ना॒ वार्या॑णां॒ क्षय॑न्तीश्चर्षणी॒नाम्। अ॒पो या॑चामि भेष॒जम्॥४॥
›अपां भेषजम्। १-४ सिन्धुद्वीपः।(अथर्वा कृतिर्वा)। (अपांनपात्,) आपः, २ आपः सोमोऽग्निश्च। गायत्री, ४ पथ्यापङ्क्तिः। शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये॑ । शं योर॒भि स्र॑वन्तु नः ॥१॥ अ॒प्सु मे॒ सोमो॑ अब्रवीद॒न्तर्विश्वा॑नि भेष॒जा।अ॒ग्निं च॑ वि॒श्वशं॑ भुवम्॥२॥ आपः॑ पृणी॒त भे॑ष॒जं वरू॑थं त॒न्वे॒३ म॑म । ज्योक् च॒ सूर्यं॑ दृ॒शे॑॥३॥ शं न॒ आपो॑ धन्व॒न्या॒३ शमु॑ सन्त्वनू॒प्याः । शं नः॑ खनि॒त्रिमा॒ आपः॒ शमु॒ याः कु॒म्भ आभृ॑ताः शि॒वा नः॑ सन्तु॒ वार्षि॑कीः॥४॥
›यातुधाननाशनम्। १-७ चातनः। अग्निः (जातवेदाः), ३ अग्नीन्द्रौ। अनुष्टुप्, ५ त्रिष्टुप्। स्तु॒वा॒नम॑ग्न॒ आ व॑ह यातु॒धानं॑ किमी॒दिन॑म्। त्वं हि दे॑व वन्दि॒तो ह॒न्ता दस्यो॑र्ब॒भूवि॑थ ॥१॥ आज्य॑स्य परमेष्ठिन् जात॑वेद॒स्तनू॑वशिन्। अग्ने॑ तौ॒लस्य॒ प्राशा॑न यातु॒धाना॒न् वि ला॑पय ॥२॥ वि ल॑पन्तु यातु॒धाना॑ अ॒त्त्रिणो॒ ये कि॑मी॒दिनः॑ । अथे॒दम॑ग्ने नो ह॒विरिन्द्र॑श्च प्रति॑ हर्यतम्॥३॥ अ॒ग्नि पूर्व॒ आ र॑भतां॒ प्रेन्द्रो॑ नुदतु बाहु॒मा॑न्। ब्रवी॑तु॒ सर्वो॑ यातु॒मान॒यम॒स्मीत्येत्य॑ ॥४॥ पश्या॑म ते वी॒र्यं॒ जातवेदः॒ प्र णो॑ ब्रूहि यातु॒धाना॑न् नृचक्षः । त्वया॒ सर्वे॒ परि॑तप्ताः पु॒रस्तात्त आ य॑न्तु प्रब्रुवा॒णा उपे॒दम्॥५॥ आ र॑भस्व जातवेदो॒ऽस्माकार्था॑य जज्ञिषे । दू॒तो नो॑ अग्ने भू॒त्वा या॑तु॒धाना॒न् वि ला॑पय ॥६॥ त्व॑मग्ने यातु॒धाना॒नुप॑बद्धाँ इ॒हा व॑ह । अथै॑षा॒मिन्द्रो॒ वज्रे॒णापि॑ शी॒र्षाणि॑ वृश्चतु ॥७॥
›यातुधाननाशनम्। १-४ चातनः। १-२ बृहस्पतिः, अग्नीषोमौ च, ३-४ अग्निः (जातवेदाः)। १-३ अनुष्टुप्, ४ बार्हतगर्भा त्रिष्टुप्। इ॒दं ह॒विर्या॑तु॒धाना॑न् न॒दी फेन॑मि॒वा व॑हत्। य इ॒दं स्त्री पुमा॒नक॑रि॒ह स स्तु॑वतां॒ जनः॑ ॥१॥ अ॒यं स्तु॑वा॒न आग॑मदि॒मं स्म॒ प्रति॑ हर्यत । बृह॑स्पते॒ वशे॑ ल॒ब्ध्वाग्नी॑षोमा॒ वि वि॑ध्यतम्॥२॥ या॒तु॒धान॑स्य सोमप ज॒हि प्र॒जां नय॑स्व च । नि स्तु॑वा॒नस्य॑ पातय॒ पर॒मक्ष्यु॒ताव॑रम्॥३॥ यत्रै॑षामग्ने॒ जनि॑मानि॒ वेत्थ॒ गुहा॑ स॒ताम॒त्त्रिणां॑ जातवेदः । तांस्त्वं ब्रह्म॑णा वावृधा॒नो ज॒ह्येऽषां शत॒तर्ह॑मग्ने ॥४॥
›विजयाय प्रार्थना। १-४ अथर्वा। १ वसवः, इन्द्रः, पूषा, वरुणः, मित्रः, अग्निः, आदित्याः, विश्वेदेवाः, २ देवाः, सूर्यः, अग्निः, हिरण्यं, ३-४ अग्निः (जातवेदाः)। त्रिष्टुप्। अ॒स्मिन् वसु॒ वस॑वो धारय॒न्त्विन्द्रः॑ पू॒षा वरु॑णो मि॒त्रो अ॒ग्निः । इ॒ममा॑दि॒त्या उ॒त॒ विश्वे॑ च दे॒वा उत्त॑रस्मि॒न् ज्योति॑षि धारयन्तु ॥१॥ अ॒स्य दे॑वाः प्र॒दिशि॒ ज्यो॑तिरस्तु॒ सूर्यो॑ अ॒ग्निरु॒त वा॒ हिर॑ण्यम्। स॒पत्ना॑ अ॒स्मदध॑रे भवन्तूत्त॒मं नाक॒मधि॑ रोहये॒मम्॥२॥ येनेन्द्रा॑य स॒मभ॑रः॒ पयां॑स्युत्त॒मेन॒ ब्रह्म॑णा जातवेदः । तेन॒ त्वम॑ग्न इ॒ह व॑र्धये॒मं स॑जा॒तानां॒ श्रैष्ठ्य॒ आ धे॑ह्येनम्॥३॥ ऐषां॑ य॒ज्ञमु॒त वर्चो॑ ददे॒ऽहं रा॒यस्पोष॑मु॒त चि॒त्तान्य॑ग्ने । स॒पत्ना॑ अ॒स्मदध॑रे भवन्तूत्त॒मं नाक॒मधि॑ रोहये॒मम्॥४॥
›पाप -विमोचनम्। १-४ अथर्वा। १ असुरः, २-४ वरुणः। त्रिष्टुप्, ३ ककुम्मती अनुष्टुप्, ४ अनुष्टुप्। अ॒यं दे॒वाना॒मसु॑रो॒ वि रा॑जति॒ वशा॒ हि स॒त्या वरु॑णस्य॒ राज्ञः॑ । तत॒स्परि॒ ब्रह्म॑णा॒ शाश॑दान उ॒ग्रस्य॑ म॒न्योरुदि॒मं न॑यामि ॥१॥ नम॑स्ते राजन् वरुणास्तु म॒न्यवे॒ विश्वं॒ ह्यु॒ऽग्र निचि॒केषि॑ द्रु॒ग्धम् । स॒हस्र॑म॒न्यान् प्र सु॑वामि सा॒कं श॒तं जी॑वाति श॒रद॒स्तवा॒यम्॥२॥ यदु॒वक्थानृ॑तं जि॒ह्वया॑ वृजि॒नं ब॒हु। राज्ञ॑स्त्वा स॒त्यध॑र्मणो मु॒ञ्चामि॒ वरु॑णाद॒हम्॥३॥ मु॒ञ्चामि॑ त्वा वैश्वान॒राद॑र्ण॒वान्म॑ह॒तस्परि॑ । स॒जा॒तानु॑ग्रे॒हा व॑द॒ ब्रह्म॒ चाप॑ चिकीहि नः ॥४॥
›नारी–सुखप्रसूतिः। १-६ अथर्वा। पूषा, अर्यमा, वेधाः, दिशः, देवाः। पङ्क्तिः, २ अनुष्टुप्, ३ चतुष्पदोष्णिग्गर्भा ककुम्मत्यनुष्टुप्, ४-६ पथ्यापङ्क्तिः। वष॑ट् ते पूषन्न॒स्मिन्त्सू॑तावर्य॒मा होता॑ कृणोतु वे॒धाः । सिस्र॑तां॒ नार्यृ॒तप्र॑जाता॒ वि पर्वा॑णि जिहतां॒ सूत॒वा उ॑ ॥१॥ चत॑स्रो दि॒वः प्र॒दिश॒श्चत॑स्रो॒ भूम्या॒ उ॒त। दे॒वा गर्भं॒ समै॑रय॒न् तं व्यू॑र्णुवन्तु॒ सूत॑वे ॥२॥ सू॒षा व्यू॑र्णोतु॒ वि योनिं॑ हापयामसि । श्र॒थया॑ सूषणे॒ त्वमव॒ त्वं बि॑ष्कले सृज ॥३॥ नेव॑ मां॒से न पीव॑सि॒ नेव॑ म॒ज्जस्वाह॑तम्। अवै॑तु॒ पृश्नि॒ शेव॑लं॒ शुने॑ ज॒राय्वत्त॒वेऽव॑ ज॒रायु॑ पद्यताम्॥४॥ वि ते॑ भिनद्मि॒ मेह॑नं॒ वि योनिं॒ वि ग॒वीनि॑के । वि मा॒तरं॑ च पु॒त्रं च॒ वि कु॑मा॒रं ज॒रायु॒णाव॑ ज॒रायु॑ पद्यताम्॥५॥ यथा॒ वातो॒ यथा॒ मनो॒ यथा॒ पत॑न्ति प॒क्षि॑णः॑ । ए॒वा त्वं द॑शमास्य सा॒कं ज॒रायु॑णा प॒ताव॑ ज॒रायु॑ पद्यताम्॥६॥
›यक्ष्मनाशनम्। १-४ भृग्वङ्गिराः। यक्ष्मनाशनम्। जगती(त्रिष्टुप्), ४ अनुष्टुप्। ज॒रा॒यु॒जः प्र॑थ॒म उ॒स्रियो॒ वृषा॒ वात॑भ्रजा स्त॒नय॑न्नेति वृ॒ष्ट्या। स नो॑ मृडाति त॒न्व ऋजु॒गो रु॒जन् य एक॒मोज॑स्त्रे॒धा वि॑चक्र॒मे॥१॥ अङ्गे॑ अङ्गे शो॒चिषा॑ शिश्रिया॒णं न॑म॒स्यन्त॑स्त्वा ह॒विषा॑ विधेम । अ॒ङ्कान्त्स॑म॒ङ्कान् ह॒विषा॑ विधेम॒ यो अग्र॑भी॒त् पर्वा॑स्या॒ ग्रभी॑ता ॥२॥ मु॒ञ्च शी॑र्ष॒क्त्या उ॒त का॒स ए॑नं॒ परु॑ष्परुरावि॒वेशा॒ यो अ॑स्य । यो अ॑भ्र॒जा वा॑त॒जा यश्च॒ शुष्मो॒ वन॒स्पती॑न्त्सचतां॒ पर्व॑तांश्च ॥३॥ शं मे॒ पर॑स्मै॒ गात्रा॑य॒ शम॒स्त्वव॑राय मे । शं मे॑ च॒तुर्भ्यो॒ अङ्गे॑भ्यः॒ शम॑स्तु त॒न्वे॒३मम॑ ॥४॥
›विद्युत्। १-४ भृग्वङ्गिराः। विद्युत्। अनुष्टुप्, ३ चतुष्पाद्विराड् जगती, ४ त्रिष्टुप्परा बृहतीगर्भा पङ्क्तिः। नम॑स्ते अस्तु वि॒द्युते॒ नम॑स्ते स्तनयि॒त्नवे । नम॑स्ते अ॒स्त्वश्म॑ने॒ येना॑ दू॒डाशे॒ अस्य॑सि ॥१॥ नम॑स्ते प्रवतो नपा॒द्यत॒स्तपः॑ स॒मूह॑सि । मृ॒डया॑ नस्त॒नूभ्यो॒ मय॑स्तो॒केभ्य॑स्कृधि ॥२॥ प्रव॑तो नपा॒न्नम॑ ए॒वास्तु॒ तुभ्यं॒ नम॑स्ते हे॒तये॒ तपु॑षे च कृण्मः । वि॒द्म ते॒ धाम॑ पर॒मं गुहा॒ यत् स॑मु॒द्रे अ॒न्तर्नि॑हि॑तासि॒ नाभिः॑ ॥३॥ यां त्वा॑ दे॒वा असृ॑जन्त॒ विश्व॒ इषुं॑ कृण्वा॒ना अस॑नाय धृ॒ष्णुम्। सा नो॑ मृड वि॒दथे॑ गृणा॒ना तस्यै॑ ते॒ नमो॑ अस्तु देवि ॥४॥
›कुलपा कन्या १-४ भृग्वङ्गिराः ।(वरुणो), यमो (वा)। अनुष्टुप्, १ ककुम्मती अनुष्टुप्, ३ चतुष्पाद्विराट्। भग॑मस्या॒ वर्च॒ आदि॒ष्यधि॑ वृ॒क्षादि॑व॒ स्रज॑म्। म॒हाबु॑ध्न इव॒ पर्व॑तो॒ ज्योक् पि॒तृष्वा॑स्ताम्॥१॥ ए॒षा ते॑ राजन् क॒न्या व॒धूर्नि धू॑यतां यम । सा मा॒तुर्ब॑ध्यतां गृ॒हेऽथो॒ भ्रातु॒रथो॑ पि॒तुः ॥२॥ ए॒षा ते॑ कुल॒पा रा॑ज॒न् तामु॑ ते॒ परि॑ दद्मसि । ज्योक् पि॒तृष्वा॑साता॒ आ शी॒र्ष्णः स॒मोप्या॑त्॥३॥ असि॑तस्य ते॒ ब्रह्म॑णा क॒श्यप॑स्य॒ गय॑स्य च । अ॒न्तः॒को॒शमि॑व जा॒मयोऽपि॑ नह्यामि ते॒ भग॑म्॥४॥
›पुष्टिकर्म। १-४ अथर्वा। सिन्धवः,(वाताः, पतत्रिणः)। अनुष्टुप्, १-२ भुरिक्पथ्या पङ्क्तिः। सं सं स्र॑वन्तु॒ सिन्ध॑वः॒ सं वाताः॒ सं प॑त॒त्रिणः॑ । इ॒मं य॒ज्ञं प्र॒दिवो॑ मे जुषन्तां संस्रा॒व्येण ह॒विषा॑ जुहोमि ॥१॥ इ॒हैव हव॒मा या॑त म इ॒ह सं॑स्रावणा उ॒तेमं व॑र्धयता गिरः । इ॒हैतु॒ सर्वो॒ यः प॒शुर॒स्मिन् ति॑ष्ठतु॒ या र॒यिः ॥२॥ ये न॒दीनां॑ सं॒स्रव॒न्त्युत्सा॑सः॒ सद॒मक्षि॑ताः । तेभि॑र्मे॒ सर्वैः॑ संस्रा॒वैर्धनं॒ सं स्रा॑वयामसि ॥३॥ ये स॒र्पिषः॑ सं॒स्रव॑न्ति क्षी॒रस्य॑ चोद॒कस्य॑ च । तेभि॑र्मे॒ सर्वैः॑ संस्रा॒वैर्धनं॒ सं स्रा॑वयामसि ॥४॥
›शत्रुबाधनम्। १-४ चातनः। १ अग्निः, २ इन्द्रः, वरुणः, (२-४ दधत्यं सीसम्)। अनुष्टुप्, ४ ककुम्मती अनुष्टुप्। येऽमावा॒स्यां॒३ रात्रि॑मु॒दस्थु॑र्व्रा॒जम॒त्त्रिणः॑ । अ॒ग्निस्तु॒रीयो॑ यातु॒हा सो अ॒स्मभ्य॒मधि॑ ब्रवत्॥१॥ सीसा॒याध्या॑ह॒ वरु॑णः॒ सीसा॑या॒ग्निरुपा॑वति । सीसं॑ म॒ इन्द्रः॒ प्राय॑च्छ॒त् तद॒ङ्ग या॑तु॒चात॑नम्॥२॥ इ॒दं विष्क॑न्धं सहत इ॒दं बा॑धते अ॒त्त्रिणः॑ । अ॒नेन॒ विश्वा॑ ससहे॒ या जा॒तानि॑ पिशा॒च्याः ॥३॥ यदि॑ नो॒ गां हंसि॒ यद्यश्वं॒ यदि॒ पूरु॑षम्। तं त्वा॒ सीसे॑न विध्यामो॒ यथा॒ नोऽसो॒ अवी॑रहा ॥४॥
›रुधिरस्रावनिवृत्तये धमनीबन्धनम्। १-४ ब्रह्मा। योषितः धमन्यश्च। अनुष्टुप्, १ भुरिगनुष्टुप्, ४ त्रिपदार्षी गायत्री। अ॒मूर्या यन्ति॑ यो॒षितो॑ हि॒रा लोहि॑तवाससः । अ॒भ्रात॑र इव जा॒मय॒स्तिष्ठ॑न्तु ह॒तव॑र्चसः ॥१॥ तिष्ठा॑वरे॒ तिष्ठ॑ पर उ॒त त्वं ति॑ष्ठ मध्यमे । क॒नि॒ष्ठि॒का च॒ तिष्ठ॑ति॒ तिष्ठा॒दिद्ध॒मनि॑र्म॒ही॥२॥ श॒तस्य॑ ध॒मनी॑नां स॒हस्र॑स्य हि॒राणा॑म्। अस्थु॒रिन्म॑ध्य॒मा इ॒माः सा॒कमन्ता॑ अरंसत ॥३॥ परि॑ वः॒ सिक॑तावती ध॒नूर्बृ॑ह॒त्यऽक्रमीत्।तिष्ठ॑ते॒लय॑ता॒ सु क॑म्॥४॥
›अलक्ष्मीनाशनम्। १-४ द्रविणोदाः। विनायकः(२ सविता, वरुणः, मित्रः, अर्यमा, देवाः, ३ सविता)। १ विराडुपरिष्टाद् बृहती, २ निचृज्जगती, ३ विराडास्तार पङ्क्तिस्त्रिष्टुप्, ४ अनुष्टुप्। निर्ल॒क्ष्म्यं ऽ लला॒म्यं॑१ निररा॑तिं सुवामसि । अथ॒ या भ॒द्रा तानि॑ नः प्र॒जाया॒ अरा॑तिं नयामसि ॥१॥ निरर॑णिं सवि॒ता सा॑विषक् प॒दोर्निर्हस्त॑यो॒र्वरु॑णो मि॒त्रो अ॑र्य॒मा। निर॒स्मभ्य॒मनु॑मती॒ ररा॑णा॒ प्रेमां दे॒वा अ॑साविषुः॒ सौभ॑गाय ॥२॥ यत् त॑ आ॒त्मनि॑ त॒न्वां ऽ घो॒रमस्ति॒ यद्वा॒ केशे॑षु प्रति॒चक्ष॑णे वा । सर्वं॒ तद्वा॒चाप॑ हन्मो व॒यं दे॒वस्त्वा॑ सवि॒ता सू॑दयतु ॥३॥ रिश्य॑पदीं॒ वृष॑दतीं गोषे॒धां वि॑ध॒मामु॒त। वि॒ली॒ढ्यं ऽ लला॒म्यं॑१ ता अ॒स्मन्ना॑शयामसि ॥४॥
›शत्रुनिवारणम्। १-४ ब्रह्मा। ईश्वरः, (१ इन्द्रः, २ दैवीः मनुष्येषवः, ३ रुद्रः, ४ देवाः)। अनुष्टुप्, २ पुरस्ताद् बृहती, ३ पथ्यापङ्क्तिः। मा नो॑ विदन् विव्या॒धिनो॒ मो अ॑भिव्या॒धिनो॑ विदन्। आ॒राच्छ॑र॒व्या ऽ अ॒स्मद्विषू॑चीरिन्द्र पातय ॥१॥ विष्व॑ञ्चो अ॒स्मच्छर॑वः पतन्तु॒ ये अ॒स्ता ये चा॒स्याः । दैवी॑र्मनुष्येषवो॒ ममा॒मित्रान् वि वि॑ध्यत ॥२॥ यो नः॒ स्वो यो अर॑णः सजा॒त उ॒त निष्ट्यो॒ यो अ॒स्माँ अ॑भि॒दास॑ति । रु॒द्रः श॑रव्य ऽ यै॒तान् ममा॒मित्रा॒न् वि वि॑ध्यतु ॥३॥ यः स॒पत्नो॒ योऽस॑पत्नो॒ यश्च॑ द्वि॒षन् छपा॑ति नः । दे॒वास्तं सर्वे॑ धूर्वन्तु॒ ब्रह्म॒ वर्म॒ ममान्त॑रम्॥४॥
›शत्रुनिवारणम्। १-४ अथर्वा। १ सोमः, मरुतः, २ मित्रावरुणौ, ३ वरुणः ४ इन्द्रः। अनुष्टुप्, त्रिष्टुप्। अदा॑रसृद् भवतु देव सोमा॒स्मिन् य॒ज्ञे म॑रुतो मृ॒डता॑ नः । मा नो॑ विददभि॒भा मो अश॑स्ति॒र्मा नो॑ विदद् वृजि॒ना द्वेष्या॒ या॥१॥ यो अ॒द्य सेन्यो॑ व॒धोऽघा॒यूना॑मु॒दीर॑ते । यु॒वं तं मि॑त्रावरुणाव॒स्मद्या॑वयतं॒ परि॑ ॥२॥ इ॒तश्च॒ यद॒मुत॑श्च॒ यद् व॒धं व॑रुण यावय । वि म॒हच्छर्म॑ यच्छ॒ वरी॑यो यावया व॒धम्॥३॥ शा॒स इ॒त्था म॒हाँ अ॑स्यमित्रसा॒हो अ॑स्तृ॒तः । न यस्य॑ ह॒न्यते॒ सखा॒ न जी॒यते॑ क॒दा च॒न॥४॥
›शत्रुनिवारणम्। १-४ अथर्वा। इन्द्रः। अनुष्टुप्। स्वस्ति॒दा वि॒शां पति॑र्वृत्र॒हा वि॑मृ॒धो॑ व॒शी। वृषेन्द्रः॑ पु॒र ए॑तु नः सोम॒पा अ॑भयंक॒रः ॥१॥ वि न॑ इन्द्र॒ मृधो॑ जहि नीचा॒ य॑च्छ पृतन्य॒तः । अ॒ध॒मं ग॑मया॒ तमो॒ यो अ॒स्माँ अ॑भि॒दास॑ति ॥२॥ वि रक्षो॒ वि मृधो॑ जहि वि वृ॒त्रस्य॒ हनू॑ रुज । वि म॒न्युमि॑न्द्र वृत्रहन्न॒मित्र॑स्याभि॒दास॑तः ॥३॥ अपे॑न्द्र द्विष॒तो मनोऽप॒ जिज्या॑सतो व॒धम्। वि महच्छर्म॑ यच्छ॒ वरी॑यो यावया व॒धम्॥४॥
›हृद्रोग-कामिला-नाशनम्। १-४ ब्रह्मा। सूर्यो, हरिमा हृद्रोगश्च। अनुष्टुप्। अनु॒ सूर्य॒मुद॑यतां हृद्दयो॒तो ह॑रि॒मा च॑ ते । गो रोहि॑तस्य॒ वर्णे॑न॒ तेन॑ त्वा॒ परि॑ दध्मसि ॥१॥ परि॑ त्वा॒ रोहि॑तै॒र्वर्णै॑र्दीर्घायु॒त्वाय॑ दध्मसि । यथा॒यम॑र॒पा अस॒दथो॒ अह॑रितो॒ भुव॑त्॥२॥ या रोहि॑णीर्देव॒त्या॒३ गावो॒ या उ॒त रोहि॑णीः । रू॒पंरू॑पं वयो॑वय॒स्ताभि॑ष्ट्वा॒ परि॑ दध्मसि ॥३॥ शुके॑षु ते हरि॒माणं॑ रोप॒णाका॑सु दध्मसि । अथो॒ हारि॑द्रवेषु ते हरि॒माणं॒ नि द॑ध्मसि ॥४॥
›शत्रुनिवारणम्। १-४ अथर्वा। वनस्पतिः(असिक्निः)। अनुष्टुप्। न॒क्तं॒जा॒तास्यो॑षधे॒ रामे॒ कृष्णे॒ असि॑क्नि च । इ॒दं र॑जनि रजय कि॒लासं॑ पलि॒तं च॒ यत्॥१॥ कि॒लासं॑ च पलि॒तं च॒ निरि॒तो ना॑शया॒ पृष॑त्। आ त्वा॒ स्वो वि॑शतां॒ वर्णः॒ परा॑ शु॒क्लानि॑ पातय ॥२॥ असि॑तं ते प्र॒लय॑नमा॒स्थान॒मसि॑तं॒ तव॑ । असि॑क्न्यस्योषधे॒ निरि॒तो ना॑शया॒ पृष॑त्॥३॥ अ॒स्थि॒जस्य॑ कि॒लास॑स्य तनू॒जस्य॑ च॒ यत् त्व॒चि। दूष्या॑ कृ॒तस्य॒ ब्रह्म॑णा॒ लक्ष्म॑ श्वे॒तम॑नीनशम्॥४॥
›शत्रुनिवारणम्। १-४ ब्रह्मा। आसुरी वनस्पतिः। अनुष्टुप्, २ निचृत्पथ्यापङ्क्तिः। सु॒प॒र्णो जा॒तः प्र॑थ॒मस्तस्य॒ त्वं पि॒त्तमा॑सिथ । तदा॑सु॒री यु॒धा जि॒ता रू॒पं च॑क्रे॒ वन॒स्पती॑न्॥१॥ आ॒सु॒री च॑क्रे प्रथ॒मेदं कि॑लासभेष॒जमि॒दं कि॑लास॒नाश॑नम्। अनी॑नशत् कि॒लासं॒ सरू॑पामकर॒त् त्वच॑म्॥२॥ सरू॑पा॒ नाम॑ ते मा॒ता सरू॑पो॒ नाम॑ ते पि॒ता। स॒रू॒प॒कृत् त्वमो॑षधे॒ सा सरू॑पमि॒दं कृ॑धि ॥३॥ श्या॒मा स॑रूपं॒कर॑णी पृथि॒व्या अध्युद्भृ॑ता । इ॒दमू॒ षु प्र सा॑धय॒ पुना॑ रू॒पाणि॑ कल्पय ॥४॥
›ज्वर-नाशनम्। १-४ भृग्वङ्गिराः । यक्ष्मनाशनोऽग्निः। त्रिष्टुप्,२-३ विराड् गर्भा, ४पुरोऽनुष्टुप्। यद॒ग्निरापो॒ अद॑हत् प्र॒विश्य॒ यत्राकृ॑ण्वन् धर्म॒धृतो॒ नमां॑सि । तत्र॑ त आहुः पर॒मं ज॒नित्रं॒ स नः॑ संवि॒द्वान् परि॑ वृङ्ग्धि तक्मन्॥१॥ यद्य॒र्चि॑र्यदि॒ वासि॑ शो॒चिः श॑कल्ये॒षि यदि॑ वा ते ज॒नित्र॑म्। ह्रूडु॒र्नामा॑सि हरितस्य देव॒ स नः॑ संवि॒द्वान् परि॑ वृङ्ग्धि तक्मन्॥२॥ यदि॑ शो॒को यदि॑ वाभिशो॒को यदि॑ वा॒ राज्ञो॒ वरु॑ण॒स्यासि॑ पु॒त्रः । ह्रू॒डु॒र्नामा॑सि हरितस्य देव॒ स नः॑ संवि॒द्वान् परि॑ वृङ्ग्धि तक्मन्॥३॥ नमः॑ शी॒ताय॑ त॒क्मने॒ नमो॑ रू॒राय॑ शो॒चिषे॑ कृणोमि । यो अ॑न्ये॒द्युरु॑भय॒द्युर॒भ्येति॒ तृती॑यकाय॒ नमो॑ अस्तु त॒क्मने॑ ॥४॥
›शर्मप्राप्तिः। १-४ ब्रह्मा। १ देवाः, २ इन्द्रः, भगः, सविता, ३-४ मरुतः। गायत्री, २ त्रिपदा एकावसाना साम्नी त्रिष्टुप्, ४ एकावसाना पादनिचृत्। आ॒रे॒३साव॒स्मद॑स्तु हे॒तिर्दे॑वासो असत्। आ॒रे अश्मा॒ यमस्य॑थ ॥१॥ सखा॒साव॒स्मभ्य॑मस्तु रा॒तिः सखेन्द्रो॒ भगः॑ सवि॒ता चि॒त्ररा॑धाः ॥२॥ यू॒यं नः॑ प्रवतो नपा॒न्मरु॑तः॒ सूर्य॑त्वचसः । शर्म॑ यच्छाथ स॒प्रथाः॑ ॥३॥ सु॒षू॒दत॑ मृ॒डत॑ मृ॒डया॑ नस्त॒नूभ्यो॒ मय॑स्तो॒केभ्य॑स्कृधि॑॥४॥
›स्वस्त्ययनम्। १-४ अथर्वा(स्वस्त्ययनकामः)। (चन्द्रमाः,) इन्द्रणी (च)। अनुष्टुप्, १ पथ्यापङ्क्तिः। अ॒मूः पा॒रे पृ॑दा॒क्व ऽ स्त्रिष॒प्ता निर्ज॑रायवः । तासां॑ ज॒रायु॑भिर्व॒यम॒क्ष्या॒वपि॑ व्ययामस्यघा॒योः प॑रिप॒न्थिनः॑ ॥१॥ विषू॑च्येतु कृन्त॒ती पिना॑कमिव॒ बिभ्र॑ती । विष्व॑क् पुन॒र्भुवा॒ मनोऽस॑मृद्धा अघा॒यवः॑ ॥२॥ न ब॒हवः॒ सम॑शक॒न् नार्भ॒का अ॒भि दा॑धृषुः । वे॒णोरद्गा॑ इवा॒भितोऽस॑मृद्धा अघा॒यवः॑ ॥३॥ प्रेतं॑ पादौ॒ प्र स्फु॑रतं॒ वह॑तं पृण॒तो गृ॒हान्। इ॒न्द्रा॒ण्येऽतु प्रथ॒माजी॒तामु॑षिता पु॒रः ॥४॥
›रक्षोघ्नम्। १-४ चातनः। १-२ अग्निः, ३-४ यातुधानीः। अनुष्टुप्, ३ विराट् पथ्याबृहती, ४ पथ्यापङ्क्तिः। उप॒ प्रागा॑द् दे॒वो अ॒ग्नी र॑क्षो॒हामी॑व॒चात॑नः । दह॒न्नप॑ द्वया॒विनो॑ यातु॒धाना॑न् किमी॒दिनः॑ ॥१॥ प्रति॑ दह यातु॒धाना॒न् प्रति॑ देव किमी॒दिनः॑ । प्र॒तीचीः॑ कृष्णवर्तने॒ सं द॑ह यातुधा॒न्यः ॥२॥ या श॒शाप॒ शप॑नेन॒ याघं मूर॑माद॒धे। या रस॑स्य॒ हर॑णाय जा॒तमा॑रे॒भे तो॒कम॑त्तु॒ सा॥३॥ पु॒त्रम॑त्तु यातुधा॒नीः स्वसा॑रमु॒त न॒प्त्यऽम्। अधा॑ मि॒थो वि॑के॒श्यो॒३वि घ्न॑तां यातुधा॒न्यो॒३वि तृ॑ह्यन्तामरा॒य्यः ॥४॥
›राष्ट्राभिवर्धनम्, सपत्नक्षयणं च। १-६ वसिष्ठः। ब्रह्मणस्पतिः, अभीवर्तमणिः। अनुष्टुप्। अ॒भी॒व॒र्तेन॑ म॒णिना॒ येनेन्द्रो॑ अभिवावृ॒धे॑। तेना॒स्मान् ब्र॑ह्मणस्पते॒ऽभि रा॒ष्ट्राय॑ वर्धय ॥१॥ अ॒भि॒वृत्य॑ स॒पत्ना॑न॒भि या नो॒ अरा॑तयः । अभि पृ॑त॒न्यन्तं॑ तिष्ठा॒भि यो नो॑ दुर॒स्यति॑ ॥२॥ अ॒भि त्वा॑ दे॒वः स॑वि॒ताभि सोमो॑ अवीवृधत्। अ॒भि त्वा॒ विश्वा॑ भू॒तान्य॑भीव॒र्तो यथास॑सि ॥३॥ अ॒भी॒व॒र्तो अ॑भिभ॒वः स॑पत्न॒क्षय॑णो म॒णिः । रा॒ष्ट्राय॒ मह्यं॑ बध्यतां स॒पत्ने॑भ्यः परा॒भुवे॑ ॥४॥ उद॒सौ सूर्यो॑ अगा॒दुदि॒दं मा॑म॒कं वचः॑ । यथा॒हं श॑त्रु॒होऽसा॑न्यसपत्नः सपत्नहा॑॥५॥ स॒प॒त्न॒क्षय॑णो॒ वृषा॒भिरा॑ष्ट्रो विषास॒हिः । यथा॒हमे॒षां वी॒राणां॑ वि॒राजा॑नि॒ जन॑स्य च ॥६॥
›दीर्घायुःप्राप्तिः। १-४ अथर्वा (आयुष्कामः)। विश्वेदेवाः (१ वसवः, आदित्याः, १-४ देवाः)। त्रिष्टुप्, ३ शाक्वरगर्भा विराड् जगती। विश्वे॑ देवा॒ वस॑वो॒ रक्ष॑ते॒ममु॒तादि॑त्या जागृ॒त यू॒यम॒स्मिन्। मेमं सना॑भिरु॒त वा॒न्यना॑भि॒र्मेमं प्राप॒त् पौरु॑षेयो व॒धो यः ॥१॥ ये वो॑ देवाः पि॒तरो॒ ये च॑ पु॒त्राः सचे॑तसो मे शृणुते॒दमु॒क्तम्। सर्वे॑भ्यो वः॒ प॑रि ददाम्ये॒तं स्व॒स्त्येऽनं ज॒रसे॑ वहाथ ॥२॥ ये दे॑वा दि॒वि ष्ठ ये पृ॑थि॒व्यां ये अ॒न्तरि॑क्ष॒ ओष॑धीषु प॒शुष्व॒प्स्व॑१न्तः । ते कृ॑णुत ज॒रस॒मायु॑र॒स्मै श॒तम॒न्यान् परि॑ वृणक्तु मृ॒त्यून्॥३॥ येषां॑ प्रया॒जा उ॒त वा॑नुया॒जा हु॒तभा॑गा अहु॒ताद॑श्च दे॒वाः । येषां॑ वः॒ पञ्च॑ प्र॒दिशो॒ विभ॑क्ता॒स्तान् वो अ॒स्मै स॑त्र॒सदः॑ कृणोमि ॥४॥
›पाशमोचनम्। १-४ ब्रह्मा। आशापालाः,(वास्तोष्पतिः)। अनुष्टुप्, ३ विराट् त्रिष्टुप्, ४ परानुष्टुप् त्रिष्टुप्। आशा॑नामाशापा॒लेभ्य॑श्च॒तुर्भ्यो॑ अ॒मृते॑भ्यः । इ॒दं भू॒तस्याध्य॑क्षेभ्यो वि॒धेम॑ ह॒विषा॑ व॒यम्॥१॥ य आशा॑नामाशापा॒लाश्च॒त्वार॒ स्थन॑ देवाः । ते नो॒ निरृ॑त्याः॒ पाशे॑भ्यो मु॒ञ्चतांह॑सो अंहसः ॥२॥ अस्रा॑मस्त्वा ह॒विषा॑ यजा॒म्यश्लो॑णस्त्वा घृ॒तेन॑ जुहोमि । य आशा॑नामाशापा॒लस्तु॒रीयो॑ दे॒वः स नः॑ सुभू॒तमेह व॑क्षत्॥३॥ स्व॒स्ति मा॒त्र उ॒त पि॒त्रे नो॑ अस्तु स्व॒स्ति गोभ्यो॒ जग॑ते॒ पुरु॑षेभ्यः । विश्वं॑ सुभू॒तं सु॑वि॒दत्रं॑ नो अस्तु॒ ज्योगे॒व दृ॑शेम॒ सूर्य॑म्॥४॥
›महद्ब्रह्म। १-४ ब्रह्मा। द्यावापृथिवी। अनुष्टुप्, २ ककुम्मत्यनुष्टुप्। इ॒दं ज॑नासो वि॒दथ॑ म॒हद् ब्रह्म॑ वदिष्यति । न तत् पृ॑थिव्यां नो दि॒वि येन॑ प्रा॒णन्ति॑ वी॒रुधः॑ ॥१॥ अ॒न्तरि॑क्ष आसां॒ स्थाम॑ श्रान्त॒सदा॑मिव । आ॒स्थान॑म॒स्य भू॒तस्य॑ वि॒दुष्टद् वे॒धसो॒ न वा॑ ॥२॥ यद् रोद॑सी॒ रेज॑माने॒ भूमि॑श्च नि॒रत॑क्षतम्। आ॒र्द्रं तद॒द्य स॑र्व॒दा स॑मु॒द्रस्ये॑व स्रो॒त्याः ॥३॥ विश्व॑म॒न्याम॑भी॒वार॒ तद॒न्यस्या॒मधि॑श्रि॒तम्। दि॒वे च॑ वि॒श्ववे॑दसे पृथि॒व्यै चा॑करं॒ नमः॑ ॥४॥
›आपः। १-४ शन्तातिः।(चन्द्रमाः) आपः(च)। त्रिष्टुप्। हिर॑ण्यवर्णाः॒ शुच॑यः पाव॒का यासु॑ जा॒तः स॑वि॒ता यास्व॒ग्निः । या अ॒ग्निं गर्भं॑ दधि॒रे सु॒वर्णा॒स्ता न॒ आपः॒ शं स्यो॒ना भ॑वन्तु ॥१॥ यासां॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑ सत्यानृ॒ते अ॑व॒पश्य॒न् जना॑नाम्। या अ॒ग्निं गर्भं॑ दधि॒रे सु॒वर्णा॒स्ता न॒ आपः॒ शं स्यो॒ना भ॑वन्तु ॥२॥ यासां॑ दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒क्षं या अ॒न्तरि॑क्षे बहु॒धा भव॑न्ति । या अ॒ग्निं गर्भं॑ दधि॒रे सु॒वर्णा॒स्ता न॒ आपः॒ शं स्यो॒ना भ॑वन्तु ॥३॥ शि॒वेन॑ मा॒ चक्षु॑षा पश्यतापः शि॒वया॑ त॒न्वोप॑ स्पृशत॒ त्वचं॑ मे । घृत॒श्चुतः॒ शुच॑यो॒ याः पा॑व॒कास्ता न॒ आपः॒ शं स्यो॒ना भवन्तु ॥४॥
›मधुविद्या। १-५ अथर्वा।मधुवनस्पतिः। अनुष्टुप्। इ॒यं वी॒रुन्मधु॑जाता॒ मधु॑ना त्वा खनामसि । मधो॒रधि॒ प्रजा॑तासि॒ सा नो॒ मधु॑मतस्कृधि ॥१॥ जि॒ह्वाया॒ अग्रे॒ मधु॑ मे जिह्वामू॒ले म॒धूल॑कम्। ममेदह॒ क्रता॒वसो॒ मम॑ चि॒त्तमु॒पाय॑सि ॥२॥ मधु॑मन्मे नि॒क्रम॑णं॒ मधु॑मन्मे प॒राय॑णम्। वा॒चा व॑दामि॒ मधु॑मद् भू॒यासं॒ मधु॑संदृशः ॥३॥ मधो॑रस्मि॒ मधु॑तरो म॒दुघा॒न्मधु॑मत्तरः । मामित् किल॒ त्वं वनाः॒ शाखां॒ मधु॑मतीमिव ॥४॥ परि॑ त्वा परित॒त्नुने॒क्षुणा॑गा॒मवि॑द्विषे । यथा॒ मां का॒मिन्यसो॒ यथा॒ मन्नाप॑गा॒ असः॑ ॥५॥
›दीर्घायुःप्राप्तिः। १-४ अथर्वा(आयुष्कामः)। हिरण्यम्, इन्द्राग्नी, विश्वे देवाः। जगती, ४ अनुष्टुब्गर्भा चतुष्पदा त्रिष्टुप्। यदाब॑ध्नन् दाक्षाय॒णा हिर॑ण्यं श॒तानी॑काय सुमन॒स्यमा॑नाः । तत् ते॑ बध्ना॒म्यायु॑षे॒ वर्च॑से॒ बला॑य दीर्घायु॒त्वाय॑ श॒तशा॑रदाय ॥१॥ नैनं॒ रक्षां॑सि॒ न पि॑शा॒चाः स॑हन्ते दे॒वाना॒मोजः॑ प्रथम॒जं ह्ये॒तत्। यो बिभ॑र्ति दाक्षाय॒णं हिर॑ण्यं॒ स जी॒वेषु॑ कृणुते दी॒र्घमायुः॑ ॥२॥ अ॒पां तेजो॒ ज्योति॒रोजो॒ बलं॑ च॒ वन॒स्पती॑नामु॒त वी॒र्याऽणि । इन्द्र॑ इवेन्द्रि॒याण्यधि॑ धारयामो अ॒स्मिन् तद् दक्ष॑माणो बिभर॒द्धिर॑ण्यम्॥३॥ समा॑नां मा॒सामृ॒तुभि॑ष्ट्वा व॒यं सं॑वत्स॒रस्य॒ पय॑सा पिपर्मि । इ॒न्द्रा॒ग्नी विश्वे॑ दे॒वास्तेऽनु॑ मन्यन्ता॒महृ॑णीयमानाः ॥४॥
›परमं धाम १-५ वेनः। ब्रह्म, आत्मा। त्रिष्टुप्, ३ जगती। वे॒नस्तत् प॑श्यत् पर॒मं गुहा॒ यद् यत्र॒ विश्वं॒ भव॒त्येक॑रूपम्। इ॒दं पृश्नि॑रदुह॒ज्जाय॑मानाः स्व॒र्विदो॑ अ॒भ्यऽनूषत॒ व्राः ॥१॥ प्र तद् वो॑चेद॒मृत॑स्य वि॒द्वान् ग॑न्ध॒र्वो धाम॑ पर॒मं गुहा॒ यत्। त्रीणि॑ प॒दानि॒ निहि॑ता॒ गुहा॑स्य॒ यस्तानि॒ वेद॒ स पि॒तुष्पि॒तास॑त्॥२॥ स नः॑ पि॒ता ज॑नि॒ता स उ॒त बन्धु॒र्धामा॑नि वेद॒ भुव॑नानि॒ विश्वा॑ । यो दे॒वानां॑ नाम॒ध एक॑ ए॒व तं सं॑प्र॒श्नं भुव॑ना यन्ति॒ सर्वा॑ ॥३॥ परि॒ द्यावा॑पृथि॒वी स॒द्य आ॑य॒मुपा॑तिष्ठे प्रथम॒जामृ॒तस्य॑ । वाच॑मिव व॒क्तरि॑ भुवने॒ष्ठा धा॒स्युरे॒ष न॒न्वे॒३षो अ॒ग्निः ॥४॥ परि॒ विश्वा॒ भुव॑नान्यायमृ॒तस्य॒ तन्तुं॒ वित॑तं दृ॒शे कम्। यत्र॑ दे॒वा अ॒मृत॑मानशा॒नाः स॑मा॒ने योना॒वध्यैर॑यन्त ॥५॥
›भुवनपतिसूक्तम्। १-५ मातृनामा। गन्धर्वाप्सरसः। त्रिष्टुप्, १ विराड् जगती, ४ त्रिष्टुपाद्विराण्नाम गायत्री, ५ भुरिगनुष्टुप्। दि॒व्यो ग॑न्ध॒र्वो भुव॑नस्य॒ यस्पति॒रेक॑ ए॒व न॑म॒स्योऽवि॒क्ष्वीड्यः॑ । तं त्वा॑ यौमि॒ ब्रह्म॑णा दिव्य देव॒ नम॑स्ते अस्तु दि॒वि ते॑ स॒धस्थ॑म्॥१॥ दि॒वि स्पृ॒ष्टो य॑ज॒तः सूर्य॑त्वगवया॒ता हर॑सो॒ दैव्य॑स्य । मृ॒डाद् ग॑न्ध॒र्वो भुव॑नस्य॒ यस्पति॒रेक॑ ए॒व न॑म॒स्यः सु॒शेवाः॑ ॥२॥ अ॒न॒व॒द्याभिः॒ समु॑ जग्म आभिरप्स॒रास्वपि॑ गन्ध॒र्व आ॑सीत्। स॒मु॒द्र आ॑सां॒ सद॑नं म आहु॒र्यतः॑ स॒द्य आ च॒ परा॑ च॒ यन्ति॑ ॥३॥ अभ्रि॑ये॒ दिद्यु॒न्नक्ष॑त्रिये॒ या वि॒श्वाव॑सुं गन्ध॒र्वं सच॑ध्वे । ताभ्यो॑ वो देवी॒र्नम॒ इत् कृ॑णोमि ॥४॥ याः क्ल॒न्दास्तमि॑षीचयो॒ऽक्षका॑मा मनो॒मुहः॑ । ताभ्यो॑ गन्ध॒र्वप॑त्नीभ्योऽप्स॒राभ्यो॑ऽकरं॒ नमः॑ ॥५॥
›आस्रावस्य भेषजम्। १-६ अङ्गिराः। भैषज्यं, आयुः, धन्वन्तरिः। अनुष्टुप्, ६ त्रिपदा स्वराडुपरिष्टान्महाबृहती। अ॒दो यद॑व॒धाव॑त्यव॒त्कमधि॒ पर्व॑तात्। तत् ते॑ कृणोमि भेष॒जं सुभे॑षजं॒ यथास॑सि ॥१॥ आद॒ङ्गा कु॒विद॒ङ्गा श॒तं या भे॑ष॒जानि॑ ते । तेषा॑मसि॒ त्वमु॑त्त॒मम॑नास्रा॒वमरो॑गणम्॥२॥ नी॒चैः ख॑न॒न्त्यसु॑रा अरु॒स्राण॑मि॒दं म॒हत्। तदा॑स्रा॒वस्य॑ भेष॒जं तदु॒ रोग॑मनीनशत्॥३॥ उ॒प॒जीका॒ उद् भ॑रन्ति समु॒द्रादधि॑ भेष॒जम्। तदा॑स्रा॒वस्य॑ भेष॒जं तदु॒ रोग॑मशीशमत्॥४॥ अ॒रु॒स्राण॑मि॒दं म॒हत् पृ॑थि॒व्या अध्युद्भृ॑तम्। तदा॑स्रा॒वस्य॑ भेष॒जं तदु॒ रोग॑मनीनशत्॥५॥ शं नो॑ भवन्त्व॒प ओष॑धयः शि॒वाः । इन्द्र॑स्य॒ वज्रो॒ अप॑ हन्तु र॒क्षस॑ आ॒राद् विसृ॑ष्टा॒ इष॑वः पतन्तु र॒क्षसा॑म्॥६॥
›दीर्घायुःप्राप्तिः। १-६ अथर्वा। (चन्द्रमाः,) जङ्गिडः। अनुष्टुप्, १ विराट् प्रस्तारपङ्क्तिः। दी॒र्घा॒यु॒त्वाय॑ बृह॒ते रणा॒यारि॑ष्यन्तो॒ दक्ष॑माणाः॒ सदै॒व। म॒णिं वि॑ष्कन्ध॒दूष॑णं जङ्गि॒डं बि॑भृमो व॒यम्॥१॥ जङ्गि॒डो ज॒म्भाद् वि॑श॒राद् विष्क॑न्धादभि॒शोच॑नात्। म॒णिः स॒हस्र॑वीर्यः॒ परि॑ णः पातु वि॒श्वतः॑ ॥२॥ अ॒यं विष्क॑न्धं सहते॒ऽयं बा॑धते अ॒त्त्रिणः॑ । अ॒यं नो॑ वि॒श्वभे॑षजो जङ्गि॒डः पा॒त्वंह॑सः ॥३॥ दे॒वैर्द॒त्तेन॑ म॒णिना॑ जङ्गि॒डेन॑ मयो॒भुवा॑ । विष्क॑न्धं॒ सर्वा॒ रक्षां॑सि व्याया॒मे स॑हामहे ॥४॥ श॒णश्च॑ मा जङ्गि॒डश्च॒ विष्क॑न्धाद॒भि र॑क्षताम्। अर॑ण्याद॒न्य आभृ॑तः कृ॒ष्या अ॒न्यो रसे॑भ्यः ॥५॥ कृ॒त्या॒दूषि॑र॒यं म॒णिरथो॑ अराति॒दूषिः॑ । अथो॒ सह॑स्वान् जङ्गि॒डः प्र ण॒ आयुं॑षि तारिषत्॥६॥
›इन्द्रस्य वीर्याणि। १-७ भृगुराथर्वणः। इन्द्रः। त्रिष्टुप्, १ उपरिष्टान्निचृद् बृहती, २ उपरिष्टाद्विराड् बृहती,३ विराट् पथ्या बृहती, ४ जगती पुरोविराट्। इन्द्र॑ जु॒षस्व॒ प्र व॒हा या॑हि शूर॒ हरि॑भ्याम्। पिबा॑ सु॒तस्य॑ म॒तेरि॒ह मधो॑श्चका॒नश्चारु॒र्मदा॑य ॥१॥ इन्द्र॑ ज॒ठरं॑ न॒व्यो न पृ॒णस्व॒ मधो॑र्दि॒वो न। अ॒स्य सु॒तस्य॒ स्व॑१र्णोप॑ त्वा॒ मदाः॑ सु॒वाचो॑ अगुः ॥२॥ इन्द्र॑स्तुरा॒षाण्मि॒त्रो वृ॒त्रं यो ज॒घान॑ य॒तीर्न। बि॒भेद॑ व॒लं भृगु॒र्न स॑सहे॒ शत्रू॒न् मदे॒ सोम॑स्य ॥३॥ आ त्वा॑ विशन्तु सु॒तास॑ इन्द्र पृ॒णस्व॑ कु॒क्षी वि॒ड्ढि श॑क्र धि॒येह्या नः॑ । श्रु॒धी हवं॒ गिरो॑ मे जुष॒स्वेन्द्र॑ स्व॒युग्भि॒र्मत्स्वे॒ह म॒हे रणा॑य ॥४॥ इन्द्र॑स्य॒ नु प्रा वो॑चं वी॒र्याऽणि॒ यानि॑ च॒कार॑ प्रथ॒मानि॑ व॒ज्री। अह॒न्नहि॒मन्व॒पस्त॑तर्द॒ प्र व॒क्षणा॑ अभिन॒त् पर्व॑तानाम्॥५॥ अह॒न्नहिं॒ पर्व॑ते शिश्रिया॒णं त्वष्टा॑स्मै॒ वज्रं॑ स्व॒र्यं ऽ ततक्ष । वा॒श्रा इ॑व धे॒नवः॒ स्यन्द॑माना॒ अञ्जः॑ समु॒द्रमव॑ जग्मु॒रापः॑ ॥६॥ वृषा॒यमा॑णो अवृणीत॒ सोमं॒ त्रिक॑द्रुकेष्वपिबत् सु॒तस्य॑ । आ साय॑कं म॒घवा॑दत्त॒ वज्र॒मह॑न्नेनं प्रथम॒जामही॑नाम्॥७॥
›सपत्नहाऽग्निः। १-५ शौनकः(सम्पत्कामः) अग्निः। त्रिष्टुप्, ४ चतुष्पदार्षी पङ्क्तिः, ५ विराट् प्रस्तारपङ्क्तिः। समा॑स्त्वाग्न ऋ॒तवो॑ वर्धयन्तु संवत्स॒रा ऋष॑यो॒ यानि॑ स॒त्या। सं दि॒व्येन॑ दीदिहि रोच॒नेन॒ विश्वा॒ आ भा॑हि प्र॒दिश॒श्चत॑स्रः ॥१॥ सं चे॒ध्यस्वा॑ग्ने॒ प्र च॑ वर्धये॒ममुच्च॑ तिष्ठ मह॒ते सौभ॑गाय । मा ते॑ रिषन्नुपस॒त्तारो॑ अग्ने ब्र॒ह्माण॑स्ते य॒शसः॑ सन्तु॒ मान्ये॥२॥ त्वाम॑ग्ने वृणते ब्राह्म॒णा इ॒मे शि॒वो अ॑ग्ने सं॒वर॑णे भवा नः । स॒प॒त्न॒हाग्ने॑ अभिमाति॒जिद् भ॑व॒ स्वे गये॑ जागृ॒ह्यप्र॑युछन्॥३॥ क्ष॒त्रेणा॑ग्ने॒ स्वेन॒ सं र॑भस्व मि॒त्रेणा॑ग्ने मित्र॒धा य॑तस्व । स॒जा॒तानां॑ मध्यमे॒ष्ठा राज्ञा॑मग्ने वि॒हव्यो॑ दीदिही॒ह॥४॥ अति॒ निहो॒ अति॒ सृधोऽत्यचि॑त्ती॒रति॒ द्विषः॑ । विश्वा॒ ह्यऽग्ने दुरि॒ता त॑र॒ त्वमथा॒स्मभ्यं॑ स॒हवी॑रं र॒यिं दाः॑
›शापमोचनम्। १-५ अथर्वा। भैषज्यं, आयुः, वनस्पतिः। अनुष्टुप्, १ भुरिक्, ४ विराडुपरिष्टाद् बृहती। अ॒घद्वि॑ष्टा दे॒वजा॑ता वी॒रुच्छ॑पथ॒योप॑नी । आपो॒ मल॑मिव॒ प्राणै॑क्षी॒त् सर्वा॒न् मच्छ॒पथाँ॒ अधि॑ ॥१॥ यश्च॑ साप॒त्नः श॒पथो॑ जा॒म्याः श॒पथ॑श्च॒ यः । ब्र॒ह्मा यन्म॑न्यु॒तः शपा॒त् सर्वं॒ तन्नो॑ अधस्प॒दम्॥२॥ दि॒वो मूल॒मव॑ततं पृथि॒व्या अध्युत्त॑तम्। तेन॑ स॒हस्र॑काण्डेन॒ परि॑ णः पाहि वि॒श्वतः॑ ॥३॥ परि॒ मां परि॑ मे प्र॒जां परि॑ णः पाहि॒ यद्धन॑म्। अरा॑तिर्नो॒ मा ता॑री॒न्मा न॑स्तारि॒षुर॒भिमा॑तयः ॥४॥ श॒प्तार॑मेतु श॒पथो॒ यः सु॒हार्त् तेन॑ नः स॒ह। चक्षु॑र्मन्त्रस्य दु॒र्हार्दः॑ पृ॒ष्टीरपि॑ शृणीमसि ॥५॥
›क्षेत्रियरोगनाशनम्। १-५ भृग्वङ्गिराः। वनस्पतिः, यक्ष्म नाशनम्। अनुष्टुप्, ३ पथ्यापङ्क्तिः, ४ विराट्, ५ निचृत्पथ्यापङ्क्तिः। उद॑गातां॒ भग॑वती वि॒चृतौ॒ नाम॒ तार॑के । वि क्षे॑त्रि॒यस्य॑ मुञ्चतामध॒मं पाश॑मुत्त॒मम्॥१॥ अपे॒यं रात्र्यु॑च्छ॒त्वपो॑च्छन्त्वभि॒कृत्व॑रीः । वी॒रुत् क्षे॑त्रिय॒नाश॒न्यप॑ क्षेत्रि॒यमु॑च्छतु ॥२॥ ब॒भ्रोरर्जु॑नकाण्डस्य॒ यव॑स्य ते पला॒ल्या तिल॑स्य तिलपि॒ञ्ज्या। वीरुत् क्षे॑त्रिय॒नाश॒न्यप॑ क्षेत्रि॒यमु॑च्छतु ॥३॥ नम॑स्ते॒ लाङ्ग॑लेभ्यो॒ नम॑ ईषायु॒गेभ्यः॑ । वी॒रुत् क्षे॑त्रिय॒नाश॒न्यप॑ क्षेत्रि॒यमु॑च्छतु ॥४॥ नमः॑ सनिस्रसा॒क्षेभ्यो॒ नमः॑ संदे॒श्येऽभ्यः । नमः॒ क्षेत्र॑स्य॒ पत॑ये वी॒रुत् क्षे॑त्रिय॒नाश॒न्यप॑ क्षेत्रि॒यमु॑छतु ॥५॥
›दीर्घायुःप्राप्तिः। १- ५ भृग्वङ्गिराः। वनस्पतिः, यक्ष्मनाशनम्। अनुष्टुप्, १ विराट् प्रस्तारपङ्क्तिः। दश॑वृक्ष मु॒ञ्चेमं रक्ष॑सो॒ ग्राह्या॒ अधि॒ यैनं॑ ज॒ग्राह॒ पर्व॑सु । अथो॑ एनं वनस्पते जी॒वानां॒ लो॒क॑मु॑न्नय ॥१॥ आगा॒दुद॑गाद॒यं जी॒वानां॒ व्रात॒मप्य॑गात्। अभू॑दु पु॒त्राणां॑ पि॒ता नृ॒णां च॒ भग॑वत्तमः ॥२॥ अधी॑ती॒रध्य॑गाद॒यमधि॑ जीवपु॒रा अ॑गान्। श॒तं ह्य॑स्य भि॒षजः॑ स॒हस्र॑मु॒त वी॒रुधः॑ ॥३॥ दे॒वास्ते॑ ची॒तिम॑विदन् ब्र॒ह्माण॑ उ॒त वी॒रुधः॑ । ची॒तिं ते॒ विश्वे॑ दे॒वा अवि॑द॒न् भूम्या॒मधि॑ ॥४॥ यश्च॒कार॒ स निष्क॑र॒त् स ए॒व सुभि॑षक्तमः । स ए॒व तुभ्यं॑ भेष॒जानि॑ कृ॒णव॑द् भि॒षजा॒ शुचिः॑ ॥५॥
›पाशमोचनम्। १-८ भृग्वङ्गिराः। १-८ द्यावापृथिवी, ब्रह्म, २ अग्निः, आपः, ओषधयः, सोमः, ३ वातः, दिशः,४-८वातपत्नीः, सूर्यः, यक्ष्मं, निर्ऋतिः। १ त्रिष्टुप्, २ सप्तपदाष्टिः, ३-५, ७-८ सप्तपदा धृतिः, ६ सप्तपदात्यष्टिः, ८ (२, ३) द्वौ पादौ उष्णिहौ। क्षे॒त्रि॒यात् त्वा॒ निरृ॑त्या जामिशं॒साद् द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्। अ॒ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑ पृथि॒वी उ॒भे स्ता॑म्॥१॥ शं ते॑ अ॒ग्निः स॒हाद्भिर॑स्तु॒ शं सो॑मः स॒हौष॑धीभिः । ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद् द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्। अ॒ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म्॥२॥ शं ते॒ वातो॑ अ॒न्तरि॑क्षे॒ वयो॑ धा॒च्छं ते॑ भवन्तु प्र॒दिश॒श्चत॑स्रः । ए॒वाहं त्वां क्षे॑त्रि॒या॑न्निरृ॑त्या जामिशं॒साद् द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्। अ॒ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म्॥३॥ इ॒मा या दे॒वीः प्र॒दिश॒श्चत॑स्रो॒ वात॑पत्नीर॒भि सूर्यो॑ वि॒चष्टे॑ । ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑ त्या जामिशं॒साद् द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्। अ॒ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॑ द्यावा॑पृथि॒वी उ॒भे स्ता॑म्॥४॥ तासु॑ त्वा॒न्तर्ज॒रस्या द॑धामि॒ प्र यक्ष्म॑ एतु॒ निरृ॑तिः परा॒चैः । ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद् द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्। अ॒ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म्॥५॥ अमु॑क्था॒ यक्ष्मा॑द् दुरि॒ताद॑व॒द्याद् द्रु॒हः पाशा॒द् ग्राह्या॒श्चोद॑मुक्थाः । ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद् द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्। अ॒ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म्॥६॥ अहा॒ अरा॑ति॒म॑विदः स्यो॒नमप्य॑भूर्भ॒द्रे सु॑कृ॒तस्य॑ लो॒के। ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद् द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्। अ॒ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म्॥७॥ सूर्य॑मृ॒तं तम॑सो॒ ग्राह्या॒ अधि॑ दे॒वा मुञ्च॑न्तो असृज॒न्निरेण॑सः । ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद् द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्। अ॒ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म्॥८॥
›श्रेयःप्राप्तिः। १-५ शुक्रः। कृत्यादूषणम्। १ चतुष्पदा विराट् गायत्री, २-५ त्रिपदा परोष्णिक्, ४ पिपीलिकमध्या निचृत्। दूष्या॒ दूषि॑रसि हे॒त्या हे॒तिर॑सि मे॒न्या मे॒निर॑सि । आ॒प्नु॒हि श्रेयां॑स॒मति॑ स॒मं क्रा॑म ॥१॥ स्र॒क्त्योऽसि प्रतिस॒रोऽसि प्रत्यभि॒चर॑णोऽसि । आ॒प्नु॒हि श्रेयां॑स॒मति॑ स॒मं क्रा॑म ॥२॥ प्रति॒ तम॒भि च॑र॒ यो॒ऽस्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः । आ॒प्नु॒हि श्रेयां॑स॒मति॑ स॒मं क्रा॑म ॥३॥ सू॒रिर॑सि वर्चो॒धा अ॑सि तनू॒पानोऽसि । आ॒प्नु॒हि श्रेयां॑स॒मति॑ स॒मं क्रा॑म ॥४॥ शु॒क्रोऽसि भ्रा॒जोऽसि॒ स्वऽरसि॒ ज्योति॑रसि । आ॒प्नु॒हि श्रेयां॑स॒मति॑ स॒मं क्रा॑म ॥५॥
›शत्रुनाशनम्। १-८ भरद्वाजः। १ द्यावापृथिवी, अन्तरिक्षम्, २ देवाः, ३ इन्द्रः, ४ आदित्या वसवोऽङ्गिरसः पितरः, ५ सोम्यासः पितरः, ६ मरुतः, ७ यमसादनम्, ब्रह्म, ८ अग्निः। त्रिष्टुप्, २ जगती, ७-८ अनुष्टुप्। द्यावा॑पृथिवी उ॒र्व॑१न्त॑रिक्षं॒ क्षेत्र॑स्य॒ पत्न्यु॑रुगा॒योऽद्भु॑तः । उ॒तान्तरिक्ष॑मु॒रु वात॑गोपं॒ त इ॒ह त॑प्यन्तां॒ मयि॑ त॒प्यमा॑ने ॥१॥ इ॒दं दे॑वाः शृणुत॒ ये य॒ज्ञिया॒ स्थ भ॒रद्वा॑जो॒ मह्य॑मु॒क्थानि॑ शंसति । पाशे॒ स ब॒द्धो दु॑रि॒ते नि यु॑ज्यतां॒ यो अ॒स्माकं॒ मन॑ इ॒दं हि॒नस्ति॑ ॥२॥ इ॒दमि॑न्द्र शृणुहि सोमप॒ यत् त्वा॑ हृ॒दा शोच॑ता॒ जोह॑वीमि । वृ॒श्चामि॒ तं कुलि॑शेनेव वृ॒क्षं यो अ॒स्माकं॒ मन॑ इ॒दं हि॒नस्ति॑ ॥३॥ अ॒शी॒तिभि॑स्ति॒सृभिः॑ साम॒गेभि॑रादि॒त्येभि॒र्वसु॑भि॒रङ्गि॑रोभिः । इ॒ष्टा॒पू॒र्तम॑वतु नः पितॄ॒णामामुं द॑दे॒ हर॑सा॒ दैव्ये॑न ॥४॥ द्यावा॑पृथिवी॒ अनु॒ मा दी॑धीथां॒ विश्वे॑ देवासो॒ अनु॒ मा र॑भध्वम्। अङ्गि॑रसः॒ पित॑रः॒ सोम्या॑सः पा॒पमार्छ॑त्वपका॒मस्य॑ क॒र्ता॥५॥ अती॑व॒ यो म॑रुतो॒ मन्य॑ते नो॒ ब्रह्म॑ वा॒ यो निन्दि॑षत् क्रि॒यमा॑णम्। तपूं॑षि॒ तस्मै॑ वृजि॒नानि॑ सन्तु ब्रह्म॒द्विषं॒ द्यौर॑भि॒संत॑पाति ॥६॥ स॒प्त प्रा॒णान॒ष्टौ म॒न्यस्तांस्ते॑ वृश्चामि॒ ब्रह्म॑णा । अया॑ य॒मस्य॒ साद॑नम॒ग्निदू॑तो॒ अरं॑कृतः ॥७॥ आ द॑धामि ते प॒दं समि॑द्धे जा॒तवे॑दसि । अ॒ग्निः शरी॑रं वेवे॒ष्ट्वसुं॒ वागपि॑ गछतु ॥८॥
›दीर्घायुःप्राप्तिः। १-५ अथर्वा। अग्निः, २-३ बृहस्पतिः, ४-५ विश्वे देवाः। त्रिष्टुप्, ४ अनुष्टुप्, ५ विराड् जगती। आ॒युर्दा अ॑ग्ने ज॒रसं॑ वृणा॒नो घृ॒तप्र॑तीको घृ॒तपृ॑ष्ठो अग्ने । घृ॒तं पी॒त्वा मधु॒ चारु॒ गव्यं॑ पि॒तेव॑ पु॒त्रान॒भि र॑क्षतादि॒मम्॥१॥ परि॑ धत्त ध॒त्त नो॒ वर्च॑से॒मं ज॒रामृ॑त्युं कृणुत दी॒र्घमायुः॑ । बृह॒स्पतिः॒ प्राय॑च्छ॒द् वास॑ ए॒तत् सोमा॑य॒ राज्ञे॒ परि॑धात॒वा उ॑ ॥२॥ परी॒दं वासो॑ अधिथाः स्व॒स्तयेऽभू॑र्गृष्टी॒नाम॑भिशस्ति॒पा उ॑ । श॒तं च॒ जीव॑ श॒रदः॑ पुरू॒ची रा॒यश्च॒ पोष॑मुप॒संव्य॑यस्व ॥३॥ एह्यश्मा॑न॒मा ति॒ष्ठाश्मा॑ भवतु ते त॒नूः । कृ॒ण्वन्तु॒ विश्वे॑ दे॒वा आयु॑ष्टे श॒रदः॑ श॒तम्॥४॥ यस्य॑ ते॒ वासः॑ प्रथमवा॒स्यं॑१ हरा॑म॒स्तं त्वा॒ विश्वे॑ऽवन्तु दे॒वाः । तं त्वा॒ भ्रात॑रः सु॒वृधा॒ वर्ध॑मान॒मनु॑ जातन्तां ब॒हवः॒ सुजा॑तम्॥५॥
›वस्युनाशनम्। १-६ चातनः। शालाग्निदैवत्यम्। अनुष्टुप्, २ भुरिक्, ४ उपरिष्ठाद्विराड् बृहती। निः॒सालां धृ॒ष्णुं धि॒षण॑मेकवा॒द्यां जि॑घ॒त्स्वऽम्। सर्वा॒श्चण्ड॑स्य न॒प्त्योऽ ना॒शया॑मः स॒दान्वाः॑ ॥१॥ निर्वो॑ गो॒ष्ठाद॑जामसि॒ निरक्षा॒न्निरु॑पान॒सात्। निर्वो॑ मगुन्द्या दुहितरो गृ॒हेभ्य॑श्चातयामहे ॥२॥ अ॒सौ यो अ॑ध॒राद् गृ॒हस्तत्र॑ सन्त्वरा॒य्यः । तत्र॑ से॒दिर्न्युऽच्यतु॒ सर्वा॑श्च यातुधा॒न्यः ॥३॥ भू॒त॒प॒तिर्निर॑ज॒त्विन्द्र॑श्चे॒तः स॒दान्वाः॑ । गृ॒हस्य॑ बु॒ध्न आसी॑ना॒स्ता इन्द्रो॒ वज्रे॒णाधि॑ तिष्ठतु ॥४॥ यदि॒ स्थ क्षे॑त्रि॒याणां॒ यदि॑ वा॒ पुरु॑षेषिताः । यदि॒ स्थ दस्यु॑भ्यो जा॒ता नश्य॑ते॒तः स॒दान्वाः॑ ॥५॥ परि॒ धामा॑न्यासामा॒शुर्गाष्ठा॑मिवासरन्। अजै॑षं॒ सर्वा॑ना॒जीन्वो॒ नश्य॑ते॒तः स॒दान्वाः॑ ॥६॥
›अभय प्राप्तिः। १-६ ब्रह्मा। प्राणः, आयुः। त्रिपाद्गायत्री। यथा॒ द्यौश्च॑ पृथि॒वी च॒ न बि॑भी॒तो न रिष्य॑तः । ए॒वा मे॑ प्राण॒ मा बि॑भेः ॥१॥ यथाह॑श्च॒ रात्री॑ च॒ न बि॑भी॒तो न रिष्य॑तः । ए॒वा मे॑ प्राण॒ मा बि॑भेः ॥२॥ यथा॒ सूर्य॑श्च च॒न्द्रश्च॒ न बि॑भी॒तो न रिष्य॑तः । ए॒वा मे॑ प्राण॒ मा बि॑भेः ॥३॥ यथा॒ ब्रह्म॑ च क्ष॒त्रं च॒ न बि॑भी॒तो न रिष्य॑तः । ए॒वा मे॑ प्राण॒ मा बि॑भेः ॥४॥ यथा॑ स॒त्यं चानृ॑तं च॒ न बि॑भी॒तो न रिष्य॑तः । ए॒वा मे॑ प्राण॒ मा बि॑भेः ॥५॥ यथा॑ भू॒तं च॒ भव्यं॑ च॒ न बि॑भी॒तो न रिष्य॑तः । ए॒वा मे॑ प्राण॒ मा बि॑भेः ॥६॥
›सुरक्षा १-५ ब्रह्मा। प्राणः, अपानः, आयुः। (एकावसानम्) १, ३ एकपदासुरी त्रिष्टुप्, प्राणा॑पानौ मृ॒त्योर्मा॑ पातं॒ स्वाहा॑ ॥१॥ द्यावा॑पृथिवी॒ उप॑श्रुत्या मा पातं॒ स्वाहा॑ ॥२॥ सूर्य॒ चक्षु॑षा मा पाहि॒ स्वाहा॑ ॥३॥ अग्ने॑ वैश्वानर॒ विश्वै॑र्मा दे॒वैः पा॑हि॒ स्वाहा॑ ॥४॥ विश्वं॑भर॒ विश्वे॑न मा॒ भर॑सा पाहि॒ स्वाहा॑ ॥५॥
›बलप्राप्तिः। १-७ ब्रह्मा। प्राणः, अपानः, आयुः। (एकावसानम्) १-६ एकपदासुरी त्रिष्टुप्, ७ आसुरी उष्णिक्। ओजो॒ऽस्योजो॑ मे दाः॒ स्वाहा॑ ।१॥ सहो॑ऽसि॒ सहो॑ मे दाः स्वाहा॑ ॥२॥ बल॑मसि॒ बलं॑ मे दाः॒ स्वाहा॑ ॥३॥ आयु॑र॒स्यायु॑र्मे दाः॒ स्वाहा॑ ॥४॥ श्रोत्र॑मसि॒ श्रोत्रं॑ मे दाः॒ स्वाहा॑ ॥५॥ चक्षु॑रसि॒ चक्षु॑र्मे दाः॒ स्वाहा॑ ॥६॥ प॒रि॒पाण॑मसि परि॒पाणं॑ मे दाः॒ स्वाहा॑ ॥७॥
›शत्रुनाशनम्। १-५ चातनः। अग्निः। (द्वैपदम्) साम्नी बृहती। भ्रा॒तृ॒व्य॒क्षय॑णमसि भ्रातृव्य॒चात॑नं मे दाः॒ स्वाहा॑ ॥१॥ स॒प॒त्न॒क्षय॑णमसि सपत्न॒चात॑नं मे दाः॒ स्वाहा॑ ॥२॥ अ॒रा॒य॒क्षय॑णमस्यराय॒चात॑नं मे दाः॒ स्वाहा॑ ॥३॥ पि॒शा॒च॒क्षय॑णमसि पिशाच॒चात॑नं मे दाः॒ स्वाहा॑ ॥४॥ स॒दा॒न्वा॒क्षय॑णमसि सदान्वा॒चात॑नं मे दाः॒ स्वाहा॑ ॥५॥
›शत्रुनाशनम्। १-५ अथर्वा। अग्निः। (एकावसानम्) १-४ निचृद्विषमा गायत्री, ५ भुरिग्विषमा। अग्ने॒ यत् ते॒ तप॒स्तेन॒ तं प्रति॑ तप॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥१॥ अग्ने॒ यत् ते॒ हर॒स्तेन॒ तं प्रति॑ हर॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥२॥ अग्ने॒ यत् ते॒ऽर्चिस्तेन॒ तं प्रत्य॑र्च॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥३॥ अग्ने॒ यत् ते॑ शो॒चिस्तेन॒ तं प्रति॑ शोच॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥४॥ अग्ने॒ यत् ते॒ तेज॒स्तेन॒ तम॑ते॒जसं॑ कृणु॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥५॥
›शत्रुनाशनम्। १-५ अथर्वा। वायुः। (एकावसानम्) १-४ निचृद्विषमा गायत्री, ५ भुरिग्विषमा। वायो॒ यत् ते॒ तप॒स्तेन॒ तं प्रति॑ तप॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥१॥ वायो॒ यत् ते॒ हर॒स्तेन॒ तं प्रति॑ हर॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥२॥ वायो॒ यत् ते॒ऽर्चिस्तेन॒ तं प्रत्य॑र्च॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥३॥ वायो॒ यत् ते॑ शो॒चिस्तेन॒ तं प्रति॑ शोच॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥४॥ वायो॒ यत् ते॒ तेज॒स्तेन॒ तम॑ते॒जसं॑ कृणु॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥५॥
›शत्रुनाशनम्। १-५ अथर्वा। सूर्यः। (एकावसानम्) १-४ निचृद्विषमा गायत्री, ५ भुरिग्विषमा। सूर्य॒ यत् ते॒ तप॒स्तेन॒ तं प्रति॑ तप॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥१॥ सूर्य॒ यत् ते॒ हर॒स्तेन॒ तं प्रति॑ हर॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥२॥ सूर्य॒ यत् ते॒ऽर्चिस्तेन॒ तं प्रत्य॑र्च॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥३॥ सूर्य॒ यत् ते॑ शो॒चिस्तेन॒ तं प्रति॑ शोच॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥४॥ सूर्य॒ यत् ते॒ तेज॒स्तेन॒ तम॑ते॒जसं॑ कृणु॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥५॥
›शत्रुनाशनम्। १-५ अथर्वा। चन्द्रः। (एकावसानम्) १-४ निचृद्विषमा गायत्री, ५ भुरिग्विषमा। चन्द्र॒ यत् ते॒ तप॒स्तेन॒ तं प्रति॑ तप॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥१॥ चन्द्र॒ यत् ते॒ हर॒स्तेन॒ तं प्रति॑ हर॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥२॥ चन्द्र॒ यत् ते॒ऽर्चिस्तेन॒ तं प्रत्य॑र्च॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥३॥ चन्द्र॒ यत् ते॒ शो॒चिस्तेन॒ तं प्रति॑ शोच॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥४॥ चन्द्र॒ यत् ते॒ तेज॒स्तेन॒ तम॑ते॒जसं॑ कृणु॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥५॥
›शत्रुनाशनम्। १-५ अथर्वा। आपः। (एकावसानम्) १-४ समविषमा, ५ स्वराड्विषमा। आपो॒ यद् व॒स्तप॒स्तेन॒ तं प्रति॑ तपत॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥१॥ आपो॒ यद् वो॒ हर॒स्तेन॒ तं प्रति॑ हरत॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥२॥ आपो॒ यद् वो॒ऽर्चिस्तेन॒ तं प्रत्य॑र्चत॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥३॥ आपो॒ यद् वः॑ शो॒चिस्तेन॒ तं प्रति॑ शोचत॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥४॥ आपो॒ यद् व॒स्तेज॒स्तेन॒ तम॑ते॒जसं॑ कृणुत॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥५॥
›शत्रुनाशनम्। १-८ ब्रह्मा। आयुष्यम्। पङ्क्तिः, १-२ पुरउष्णिक्, ३-४ पुरोदेवत्या पङ्क्तिः(१-४ विराट्), ५-८ पञ्चपदा पथ्यापङ्क्तिः (५ भुरिक्, ६-७ निचृत्, ५ चतुष्पदा बृहती, ७-८ भुरिक्)। शेर॑भक॒ शेर॑भ॒ पुन॑र्वो यन्तु या॒तवः॒ पुन॑र्हे॒तिः कि॑मीदिनः । यस्य॒ स्थ तम॑त्त॒ यो वः॒ प्राहै॒त् तम॑त्त॒ स्वा मां॒सान्य॑त्त ॥१॥ शेवृ॑धक॒ शेवृ॑ध॒ पुन॑र्वो यन्तु या॒तवः॒ पुन॑र्हे॒तिः कि॑मीदिनः । यस्य॒ स्थ तम॑त्त॒ यो वः प्राहै॒त् तम॑त्त॒ स्वा मां॒सान्य॑त्त ॥२॥ म्रोकानु॑म्रोक॒ पुन॑र्वो यन्तु या॒तवः॒ पुन॑र्हे॒तिः कि॑मीदिनः । यस्य॒ स्थ तम॑त्त॒ यो वः॒ प्राहै॒त् तम॑त्त॒ स्वा मां॒सान्य॑त्त ॥३॥ सर्पानु॑सर्प॒ पुन॑र्वो यन्तु या॒तवः॒ पुन॑र्हे॒तिः कि॑मीदिनः । यस्य॒ स्थ तम॑त्त॒ यो वः॒ प्राहै॒त् तम॑त्त॒ स्वा मां॒सान्य॑त्त ॥४॥ जूर्णि॒ पुन॑र्वो यन्तु या॒तवः॒ पुन॑र्हे॒तिः कि॑मीदिनीः । यस्य॒ स्थ तम॑त्त॒ यो वः॒ प्राहै॒त् तम॑त्त॒ स्वा मां॒सान्य॑त्त ॥५॥ उप॑ब्दे॒ पुन॑र्वो यन्तु या॒तवः॒ पुन॑र्हे॒तिः कि॑मीदिनीः । यस्य॒ स्थ तम॑त्त॒ यो वः॒ प्राहै॒त् तम॑त्त॒ स्वा मां॒सान्य॑त्त ॥६॥ अर्जु॑नि॒ पुन॑र्वो यन्तु या॒तवः॒ पुन॑र्हे॒तिः कि॑मीदिनीः । यस्य॒ स्थ तम॑त्त॒ यो वः॒ प्राहै॒त् तम॑त्त॒ स्वा मां॒सान्य॑त्त ॥७॥ भरू॑जि पुन॑र्वो यन्तु या॒तवः॒ पुन॑र्हे॒तिः कि॑मीदिनीः । यस्य॒ स्थ तम॑त्त॒ यो वः॒ प्राहै॒त् तम॑त्त॒ स्वा मां॒सान्य॑त्त ॥८॥
›पृश्निपर्णी। १-५ चातनः। पृश्निपर्णी वनस्पतिः। अनुष्टुप्, ४ भुरिक्। शं नो॑ दे॒वी पृ॑श्निप॒र्ण्यशं॒ निरृ॑त्या अकः । उ॒ग्रा हि क॑ण्व॒जम्भ॑नी॒ ताम॑भक्षि॒ सह॑स्वतीम्॥१॥ सह॑माने॒यं प्र॑थ॒मा पृ॑श्निप॒र्ण्यऽजायत । तया॒हं दु॒र्णाम्नां॒ शिरो॑ वृ॒श्चामि॑ श॒कुने॑रिव ॥२॥ अ॒राय॑मसृ॒क्पावा॑नं॒ यश्च॑ स्फा॒तिं जिही॑र्षति । ग॒र्भा॒दं कण्वं॑ नाशय॒ पृश्नि॑पर्णि॒ सह॑स्व च ॥३॥ गि॒रिमे॑नाँ॒ आ वे॑शय॒ कण्वा॑न् जीवित॒योप॑नान्। तांस्त्वं दे॑वि पृश्निपर्ण्य॒ग्निरि॑वानु॒दह॑न्निहि ॥४॥ परा॑च एना॒न् प्र णु॑द॒ कण्वा॑न् जीवित॒योप॑नान्। तमां॑सि॒ यत्र॒ गच्छ॑न्ति॒ तत् क्र॒व्यादो॑ अजीगमम्॥५॥
›पशुसंवर्धनम्। १-५ सविता। पशवः। त्रिष्टुप्, ३ उपरिष्टाद्विराड् बृहती, ४ भुरिगनुष्टुप्, ५ अनुष्टुप्। एह य॑न्तु प॒शवो॒ ये प॑रे॒युर्वा॒युर्येषां॑ सहचा॒रं जु॒जोष॑ । त्वष्टा॒ येषां॑ रूप॒धेया॑नि वेदा॒स्मिन् तान् गो॒ष्ठे स॑वि॒ता नि य॑छतु ॥१॥ इ॒मं गो॒ष्ठं प॒शवः॒ सं स्र॑वन्तु॒ बृह॒स्पति॒रा न॑यतु प्रजा॒नन्। सि॒नी॒वा॒ली न॑य॒त्वाग्र॑मेषामाज॒ग्मुषो॑ अनुमते॒ नि य॑छ ॥२॥ सं सं स्र॑वन्तु प॒शवः॒ समश्वाः॒ समु॒ पूरु॑षाः । सं धा॒न्यऽस्य॒ या स्फा॒तिः सं॑स्रा॒व्येऽण ह॒विषा॑ जुहोमि ॥३॥ सं सि॑ञ्चामि॒ गवां॑ क्षी॒रं समाज्ये॑न॒ बलं॒ रसम्। संसि॑क्ता अ॒स्माकं॑ वी॒रा ध्रु॒वा गावो॒ मयि॒ गोप॑तौ ॥४॥ आ ह॑रामि॒ गवां॑ क्षी॒रमाहा॑र्षं धा॒न्यं॑१ रस॑म्। आहृ॑ता अ॒स्माकं॑ वी॒रा आ पत्नी॑रि॒दमस्त॑कम्॥५॥
›शत्रुपराजयः। १-७ कपिञ्जलः। १-५ वनस्पतिः, ६ रुद्रः, ७ इन्द्रः। अनुष्टुप्। नेच्छत्रुः॒ प्राशं॑ जयाति॒ सह॑मानाभि॒भूर॑सि । प्राशं॒ प्रति॑प्राशो जह्यर॒सान् कृ॑न्वोषधे ॥१॥ सु॒प॒र्णस्त्वान्व॑विन्दत् सूक॒रस्त्वा॑खनन्न॒सा। प्राशं॒ प्रति॑प्राशो जह्यर॒सान् कृ॑ण्वोषधे ॥२॥ इन्द्रो॑ ह चक्रे त्वा बा॒हावसु॑रेभ्य॒ स्तरी॑तवे । प्राशं॒ प्रति॑प्राशो जह्यर॒सान् कृ॑ण्वोषधे ॥३॥ पा॒टामिन्द्रो॒ व्याऽश्ना॒दसु॑रेभ्य॒ स्तरी॑तवे । प्राशं॒ प्रति॑प्राशो जह्यर॒सान् कृ॑ण्वोषधे ॥४॥ तया॒हं शत्रू॑न्त्साक्ष॒ इन्द्रः॑ सालावृ॒काँ इ॑व । प्राशं॒ प्रति॑प्राशो जह्यर॒सान् कृ॑ण्वोषधे ॥५॥ रुद्र॒ जला॑षभेषज॒ नील॑शिखण्ड॒ कर्म॑कृत्। प्राशं॒ प्रति॑प्राशो जह्यर॒सान् कृ॑ण्वोषधे ॥६॥ तस्य॒ प्राशं॒ त्वं ज॑हि॒ यो न॑ इन्द्राभि॒दास॑ति । अधि॑ नो ब्रूहि॒ शक्ति॑भिः प्रा॒शि मामुत्त॑रं कृधि ॥७॥
›दीर्घायुःप्राप्तिः। १-५ शम्भुः। १, ३ जरिमा, आयुः, २ मित्रावरुणौ, ३-५ द्यावापृथिव्यादयो देवाः। त्रिष्टुप्, १जगती, ५ भुरिक्। तुभ्य॑मे॒व ज॑रिमन् वर्धताम॒यं मेमम॒न्ये मृ॒त्यवो॑ हिंसिषुः श॒तं ये॑। मा॒तेव॒ पु॒त्रं प्रम॑ना उ॒पस्थे॑ मि॒त्र ए॑नं मि॒त्रिया॑त् पा॒त्वंह॑सः ॥१॥ मि॒त्र एनं॒ वरु॑णो वा रि॒शादा॑ ज॒रामृ॑त्युं कृणुतां संविदा॒नौ। तद॒ग्निर्होता॑ व॒युना॑नि विद्वान् विश्वा॑ दे॒वानां॒ जनि॑मा विवक्ति ॥२॥ त्वमी॑शिषे पशू॒नां पार्थि॑वानां॒ ये जा॒ता उ॒त वा॒ ये ज॒नित्राः॑ । मेमं प्रा॒णो हा॑सी॒न्मो अ॑पा॒नो मेमं मि॒त्रा व॑धिषु॒र्मो अ॒मित्राः॑ ॥३॥ द्यौष्ट्वा॑ पि॒ता पृ॑थि॒वी मा॒ता ज॒रामृ॑त्युं कृणुतां संविदा॒ने। यथा॒ जीवा॒ अदि॑तेरु॒पस्थे॑ प्राणापा॒नाभ्यां॑ गुपि॒तः श॒तं हिमाः॑ ॥४॥ इ॒मम॑ग्ने॒ आयु॑षे॒ वर्च॑से नय प्रि॒यं रेतो॑ वरुण मित्रराजन्। मा॒तेवा॑स्मा अदिते॒ शर्म॑ यच्छ॒ विश्वे॑ देवा ज॒रद॑ष्टि॒र्य॑थास॑त्॥५॥
›दीर्घायुष्यम्। १-७ अथर्वा। १ अग्निः, सूर्यः, बृहस्पतिः, २ जातवेदाः, सविता, ३ इन्द्रः, ४-५ द्यावापृथिवी, विश्वे देवाः, मरुतः, आपः, ६ अश्विनौ, ७ इन्द्रः। त्रिष्टुप्, १ अनुष्टुप्, ४ पराबृहती निचृत्प्रस्तारपङ्क्तिः। पार्थि॑वस्य॒ रसे॑ देवा॒ भग॑स्य त॒न्वो॒३ बले॑ । आ॒यु॒ष्यऽम॒स्मा अ॒ग्निः सूर्यो वर्च॒ आ धा॒द् बृह॒स्पतिः॑ ॥१॥ आयु॑र॒स्मै धे॑हि जातवेदः प्रजां त्व॑ष्टरधि॒निधे॑ह्य॒स्मै। रा॒यस्पोषं॑ सवित॒रा सु॑वा॒स्मै श॒तं जी॑वाति श॒रद॒स्तवा॒यम्॥२॥ आ॒शीर्ण॒ ऊर्ज॑मु॒त सौ॑प्रजा॒स्त्वं दक्षं॑ धत्तं॒ द्रवि॑णं॒ सचे॑तसौ । जयं॒ क्षेत्रा॑णि॒ सह॑सा॒यमि॑न्द्र कृण्वा॒नो अ॒न्यानध॑रान्त्स॒पत्ना॑न्॥३॥ इन्द्रे॑ण द॒त्तो वरु॑णेन शि॒ष्टो म॒रुद्भि॑रु॒ग्रः प्रहि॑तो न॒ आग॑न्। ए॒ष वां॑ द्यावापृथिवी उ॒पस्थे॒ मा क्षु॑ध॒न्मा तृ॑षत्॥४॥ ऊर्ज॑मस्मा ऊर्जस्वती धत्तं॒ पयो॑ अस्मै पयस्वती धत्तम्। ऊर्ज॑म॒स्मै द्यावा॑पृथि॒वी अ॑धातां॒ विश्वे॑ दे॒वा म॒रुत॒ ऊर्ज॒मापः॑ ॥५॥ शि॒वाभि॑ष्टे॒ हृद॑यं तर्पयाम्यनमी॒वो मो॑दिषीष्ठाः सु॒वर्चाः॑ । स॒वा॒सिनौ॑ पिबतां म॒न्थमे॒तम॒श्विनो॑ रू॒पं प॑रि॒धाय॑ मा॒याम्॥६॥ इन्द्र॑ ए॒तां स॑सृजे विद्धो अग्र॑ ऊ॒र्जां स्व॒धाम॒जरां॒ सा त॑ ए॒षा। तया॒ त्वं जी॑व श॒रदः॑ सु॒वर्चा॒ मा त॒ आ सु॑स्रोद् भि॒षज॑स्ते अक्रन्॥७॥
›कामिनीमनोऽभिमुखीकरणम्। १-५ प्रजापतिः। १ मनः, २ अश्विनौ, ३-४ औषधिः, ५ दम्पती। अनुष्टुप्, १ पथ्यापङ्क्तिः, ३ भुरिक्। यथे॒दं भूम्या॒ अधि॒ तृणं॒ वातो॑ मथा॒य॑ति । ए॒वा म॑थ्नामि ते मनो॒ यथा॒ मां का॒मिन्यसो॒ यथा॒ मन्नाप॑गा॒ असः॑ ॥१॥ सं चेन्नया॑थो अश्विना का॒मिना॒ सं च॒ वक्ष॑थः । सं वां॒ भगा॑सो अग्मत॒ सं चि॒त्तानि॒ समु॑ व्र॒ता॥२॥ यत् सु॑प॒र्णा वि॑व॒क्षवो॑ अनमी॒वा वि॑व॒क्षवः॑ । तत्र॑ मे गछता॒द्धवं॑ श॒ल्य इ॑व॒ कुल्म॑लं॒ यथा॑ ॥३॥ यदन्त॑रं॒ तद् बाह्यं॒ यद् बाह्यं॒ तदन्त॑रम्। क॒न्याऽनां वि॒श्वरू॑पाणां॒ मनो॑ गृभायौषधे ॥४॥ एयम॑ग॒न् पति॑कामा॒ जनि॑कामो॒ऽहमाग॑मम्। अश्वः॒ कनि॑क्रद॒द् यथा॒ भगे॑ना॒हं स॒हाग॑मम्॥५॥
›क्रिमिजम्भनम्। १-५ कण्वः। मही, चन्द्रमाः। अनुष्टुप्, २, ४ उपरिष्टाद्विराड्बृहती, ३, ५ आर्षी त्रिष्टुप्। इन्द्र॑स्य॒ या म॒ही दृ॒षत् क्रिमे॒र्विश्व॑स्य॒ तर्ह॑णी । तया॑ पिनष्मि॒ सं क्रिमी॑न् दृ॒षदा॒ खल्वाँ॑ इव ॥१॥ दृ॒ष्टम॒दृष्ट॑मतृह॒मथो॑ कु॒रूरु॑मतृहम्। अ॒ल्गण्डू॒न्त्सर्वा॑न् छ॒लुना॒न् क्रिमी॒न् वच॑सा जम्भयामसि ॥२॥ अ॒ल्गण्डू॑न् हन्मि मह॒ता व॒धेन॑ दू॒ना अदू॑ना अर॒सा अ॑भूवन्। शि॒ष्टानशि॑ष्टा॒न् नि ति॑रामि वा॒चा यथा॒ क्रिमी॑णां॒ नकि॑रु॒च्छिषा॑तै ॥३॥ अन्वा॑न्त्र्यं शीर्ष॒ण्य॑१मथो॒ पार्ष्टे॑यं॒ क्रिमी॑न्। अ॒व॒स्क॒वं व्य॑ध्व॒रं क्रिमी॒न् वच॑सा जम्भयामसि ॥४॥ ये क्रिम॑यः॒ पर्व॑तेशु॒ वने॒ष्वोष॑धीषु प॒शुष्व॒प्स्व॑१न्तः । ये अ॒स्माकं॑ त॒न्वऽमाविवि॒शुः सर्वं॒ तद्ध॑न्मि॒ जनि॑म॒ क्रिमी॑णाम्॥५॥
›क्रिमिनाशनम्। १-६ कण्वः। आदित्यः। अनुष्टुप्, १ त्रिपाद्भुरिग्गायत्री, ६ चतुष्पान्निचृदुष्णिक्। उ॒द्यन्ना॑दि॒त्यः क्रिमी॑न् हन्तु नि॒म्रोच॑न् हन्तु र॒श्मिभिः॑ । ये अ॒न्तः क्रिम॑यो॒ गवि॑ ॥१॥ वि॒श्वरू॑पं चतुर॒क्षं क्रिमिं॑ सा॒रङ्ग॒मर्जु॑नम्। शृ॒णाम्य॑स्य पृ॒ष्टीरपि॑ वृश्चामि॒ यच्छिरः॑ ॥२॥ अ॒त्रि॒वद् वः॑ क्रिमयो हन्मि कण्व॒वज्ज॑मदग्नि॒वत्। अ॒गस्त्य॑स्य॒ ब्रह्म॑णा॒ सं पि॑नष्म्य॒हं क्रिमी॑न्॥३॥ ह॒तो राजा॒ क्रिमी॑णामु॒तैषां॑ स्थ॒पति॑र्ह॒तः । ह॒तो ह॒तमा॑ता॒ क्रिमि॑र्ह॒तभ्रा॑ता ह॒तस्व॑सा ॥४॥ ह॒तासो॑ अस्य वे॒शसो॑ ह॒तासः॒ परि॑वेशसः । अथो॒ ये क्षु॑ल्ल॒का इ॑व॒ सर्वे॒ ते क्रिम॑यो ह॒ताः ॥५॥ प्र ते॑ शृणामि॒ शृङ्गे॒ याभ्यां॑ वितुदा॒यसि॑ । भि॒नाद्मि॑ ते कु॒षुम्भं॒ यस्ते॑ विष॒धानः॑ ॥६॥
›यक्ष्मविबर्हणम्। १-७ ब्रह्मा। यक्ष्मविबर्हणं, चन्द्रमाः, आयुष्यम्। अनुष्टुप्, ३ ककुम्मती, ४ चतुष्पदा भुरिगुष्णिक्, ५ उपरिष्टाद्विराड्बृहती, ६ उष्णिग्गर्भा निचृदनुष्टुप्, ७ पथ्यापङ्क्तिः। अ॒क्षीभ्यां॑ ते॒ नासि॑काभ्यां॒ कर्णा॑भ्यां छुबु॑का॒दधि॑ । यक्ष्मं॑ शीर्ष॒ण्यं ऽ म॒स्तिष्का॑ज्जि॒ह्वाया॒ वि वृ॑हामि ते ॥१॥ ग्री॒वाभ्य॑स्त उ॒ष्णिहा॑भ्यः॒ कीक॑साभ्यो अनू॒क्याऽत्। यक्ष्मं॑ दोष॒ण्य॑१मंसा॑भ्यां बा॒हुभ्यां॒ वि वृ॑हामि ते ॥२॥ हृद॑यात् ते॒ परि॑ क्लो॒म्नो हली॑क्ष्णात् पा॒र्श्वाभ्या॑म्। यक्ष्मं॒ मत॑स्नाभ्यां प्ली॒ह्नो य॒क्नस्ते॒ वि वृ॑हामसि ॥३॥ आ॒न्त्रेभ्य॑स्ते॒ गुदा॑भ्यो वनि॒ष्ठोरु॒दरा॒दधि॑ । यक्ष्मं॑ कु॒क्षिभ्यां॑ प्ला॒शेर्नाभ्या॒ वि वृ॑हामि ते ॥४॥ ऊ॒रुभ्यां॑ ते अष्ठी॒वद्भ्यां॒ पार्ष्णिभ्यां॒ प्रप॑दाभ्याम्। यक्ष्मं॑ भस॒द्यं॑१ श्रोणि॑भ्यां॒ भास॑दं॒ भंस॑सो॒ वि वृ॑हामि ते ॥५॥ अ॒स्थिभ्य॑स्ते म॒ज्जभ्यः॒ स्नाव॑भ्यो ध॒मनि॑भ्यः । यक्ष्मं॑ पा॒णिभ्या॑म॒ङ्गुलि॑भ्यो न॒खेभ्यो॒ वि वृ॑हामि ते ॥६॥ अङ्गे॑अङ्गे॒ लोम्नि॑लोम्नि॒ यस्ते॒ पर्व॑णिपर्वणि । यक्ष्मं॑ त्वचस्य ऽ ते व॒यं क॒श्यप॑स्य वीब॒र्हेण॒ विष्व॑ञ्चं॒ वि वृ॑हामसि ॥७॥
›पशवः। १-५ अथर्वा। १ पशुपतिः, २ देवाः, ३ अग्निः विश्वाकर्मा, ४ वायुः प्रजापतिः, ५ आशीः। त्रिष्टुप्। य ईशे॑ पशु॒पतिः॑ पशू॒नां चतु॑ष्पदामु॒त यो द्वि॒पदा॑म्। निष्क्री॑तः॒ स य॒ज्ञियं॑ भा॒गमे॑तु रा॒यस्पोषा॒ यज॑मानं सचन्ताम्॥१॥ प्र॒मु॒ञ्चन्तो॒ भुव॑नस्य॒ रेतो॑ गा॒तुं ध॑त्त॒ यज॑मानाय देवाः । उ॒पाकृ॑तं शशमा॒नं यदस्था॑त् प्रि॒यं दे॒वाना॒मप्ये॑तु॒ पाथः॑ ॥२॥ ये ब॒ध्यमा॑न॒मनु॒ दीध्या॑ना अ॒न्वैक्ष॑न्त॒ मन॑सा॒ चक्षु॑षा च । अ॒ग्निष्टानग्रे॒ प्र मु॑मोक्तु दे॒वो वि॒श्वक॑र्मा प्र॒जया॑ संररा॒णः ॥३॥ ये ग्रा॒म्याः प॒शवो॑ वि॒श्वरू॑पा विरू॑पाः सन्तो॑ बहु॒धैक॑रूपाः । वा॒युष्टानग्रे॒ प्र मु॑मोक्तु दे॒वः प्र॒जाप॑तिः प्र॒जया॑ संररा॒णः ॥४॥ प्र॒जा॒नन्तः॒ प्रति॑ गृह्णन्तु॒ पूर्वे॑ प्रा॒णमङ्गे॑भ्यः॒ पर्या॒चर॑न्तम्। दिवं॑ गच्छ॒ प्रति॑ तिष्ठा॒ शरी॑रैः स्व॒र्गं या॑हि प॒थिभि॑र्देव॒यानैः॑ ॥५॥
›विश्वकर्मा। १-५ अङ्गिराः। विश्वकर्मा। त्रिष्टुप्, १ बृहतीगर्भा, ४-५ भुरिक्। ये भ॒क्षय॑न्तो॒ न वसू॑न्यानृ॒धुर्यान॒ग्नयो॑ अ॒न्वत॑प्यन्त॒ धिष्ण्याः॑ । या तेषा॑मव॒या दुरि॑ष्टिः॒ स्विऽष्टिं न॒स्तां कृ॑णवद् वि॒श्वक॑र्मा ॥१॥ य॒ज्ञप॑ति॒मृष॑यः॒ एन॑साहु॒र्निर्भ॑क्तं प्र॒जा अ॑नुत॒प्यमा॑नम्। म॒थ॒व्या॒ऽन्त्स्तो॒कानप॒ यान् र॒राध॒ सं न॒ष्टेभिः॑ सृजतु वि॒श्वक॑र्मा ॥२॥ अ॒दा॒न्यान्त्सो॑म॒पान् मन्य॑मानो य॒ज्ञस्य॑ वि॒द्वान्त्स॑म॒ये न धीरः॑ । यदेन॑श्चकृ॒वान् ब॒द्ध ए॒ष तं वि॑श्वकर्म॒न् प्र मु॑ञ्चा स्व॒स्तये॑ ॥३॥ घो॒रा ऋष॑यो॒ नमो॑ अस्त्वेभ्य॒श्चक्षु॒र्यदे॑षां॒ मन॑सश्च स॒त्यम्। बृह॒स्पत॑ये महिष द्यु॒मन्नमो॒ विश्व॑कर्म॒न् नम॑स्ते पा॒ह्य॑१स्मा॑न्॥४॥ य॒ज्ञस्य॒ चक्षुः॒ प्रभृ॑ति॒र्मुखं॑ च वा॒चा श्रोत्रे॑ण॒ मन॑सा जुहोमि । इ॒मं य॒ज्ञं वित॑तं वि॒श्वक॑र्म॒णा दे॒वा य॑न्तु सुमन॒स्यमा॑नाः ॥५॥
›पतिवेदनम्। १-८ पतिवेदनः। १अग्निः, २ सोमः, अर्यमा, धाता, ३ अग्नीषोमौ, ४ इन्द्रः, ५ सूर्यः, ६ धनपतिः, ७ भगः, ८ औषधिः। त्रिष्टुप्, १भुरिक्, २, ५-७ अनुष्टुप्, ८ निचृत्पुरउष्णिक्। आ नो॑ अग्ने सुम॒तिं सं॑भ॒लो ग॑मेदि॒मां कु॑मा॒रीं स॒ह नो॒ भगे॑न । जु॒ष्टा व॒रेषु॒ सम॑नेषु व॒ल्गुरो॒षं पत्या॒ सौभ॑गमस्त्व॒स्यै॥१॥ सोम॑जुष्टं॒ ब्रह्म॑जुष्टमर्य॒म्णा संभृ॑तं॒ भग॑म्। धा॒तुर्दे॒वस्य॑ स॒त्येन॑ कृ॒णोमि॑ पति॒वेद॑नम्॥२॥ इ॒यम॑ग्ने॒ नारी॒ पतिं॑ विदेष्ट॒ सोमो॒ हि राजा॑ सु॒भगां॑ कृ॒णोति॑ । सुवा॑ना पु॒त्रान् महि॑षी भवाति ग॒त्वा पतिं॑ सु॒भगा॒ वि रा॑जतु ॥३॥ यथा॑ख॒रो म॑घवं॒श्चारु॑रे॒ष प्रि॒यो मृ॒गाणां॑ सु॒षदा॑ ब॒भूव॑ । ए॒वा भग॑स्य जु॒ष्टेयम॑स्तु॒ नारी॒ संप्रि॑या॒ पत्यावि॑राधयन्ती ॥४॥ भग॑स्य॒ नाव॒मा रो॑ह पू॒र्णामनु॑पदस्वतीम्। तयो॑पप्रता॑रय॒ यो वरः प्र॑तिका॒म्यः ॥५॥ आ क्र॑न्दय धनपते व॒रमाम॑नसं कृणु । सर्वं॑ प्रदक्षि॒णं कृ॑णु॒ यो व॒रः प्र॑तिका॒म्यः ॥६॥ इ॒दं हिर॑ण्यं॒ गुल्गु॑ल्व॒यमौ॒क्षो अथो॒ भगः॑ । ए॒ते पति॑भ्य॒स्त्वाम॑दुः प्रतिका॒माय॒ वेत्त॑वे ॥७ आ ते॑ नयतु सवि॒ता न॑यतु॒ पति॒र्यः प्र॑तिका॒म्यः । त्वम॑स्यै धेह्योषधे ॥८॥
›शत्रुसेनासंमोहनम्। १-६ अथर्वा। सेनामोहनम्, १ अग्निः, २ मरुतः, ३-६ इन्द्रः। त्रिष्टुप्, २ विराड्गर्भा भुरिक्, ३-६ अनुष्टुप्, ५ विराट् पुरउष्णिक्। अ॒ग्निर्नः॒ शत्रू॒न् प्रत्ये॑तु वि॒द्वान् प्र॑ति॒दह॑न्न॒भिश॑स्ति॒मरा॑तिम्। स सेनां॑ मोहयतु॒ परे॑षां॒ निर्ह॑स्तांश्च कृणवज्जा॒तवे॑दाः ॥१॥ यू॒यमु॒ग्रा म॑रुत ई॒दृशे॑ स्था॒भि प्रेत॑ मृ॒णत॒ सह॑ध्वम्। अमी॑मृण॒न् वस॑वो नाथि॒ता इ॒मे अ॒ग्निर्ह्येऽषां दू॒तः प्र॒त्येतु॑ वि॒द्वान्॥२॥ अ॒मि॒त्र॒से॒नां॑ मघवन्न॒स्मान् छ॑त्रूय॒तीम॒भि। यु॒वं तानि॑न्द्र वृत्रहन्न॒ग्निश्च॑ दहतं॒ प्रति॑ ॥३॥ प्रसू॑त इन्द्र प्र॒वता॒ हरि॑भ्यां॒ प्र ते॒ वज्रः॑ प्रमृ॒णन्ने॑तु॒ शत्रू॑न्। ज॒हि प्र॒तीचो॑ अ॒नूचः॒ परा॑चो॒ विष्व॑क् स॒त्यं कृ॑णुहि चि॒त्तमे॑षाम्॥४॥ इन्द्र॒ सेनां॑ मोहया॒मित्रा॑णाम्। अ॒ग्नेर्वात॑स्य॒ ध्राज्या॒ तान् विषू॑चो॒ वि ना॑शय ॥५॥ इन्द्रः॒ सेनां॑ मोहयतु म॒रुतो॑ घ्न॒न्त्वोज॑सा । चक्षूं॑स्य॒ग्निरा द॑त्तां॒ पुन॑रेतु॒ परा॑जिता ॥६॥
›शत्रुसेनासंमोहनम्। १-६ अथर्वा। सेनामोहनम्, १-२ अग्निः, ३-४ इन्द्रः, ५ द्यौः, ६ मरुतः। त्रिष्टुप्, २-४ अनुष्टुप्। अ॒ग्निर्नो॑ दू॒तः प्र॒त्येतु॑ वि॒द्वान् प्र॑ति॒दह॑न्न॒भिश॑स्ति॒मरा॑तिम्। स चि॒त्तानि॑ मोहयतु॒ परे॑षां॒ निर्ह॑स्तांश्च कृणवज्जा॒तवे॑दाः ॥१॥ अ॒यम॒ग्निर॑मूमुह॒द् यानि॑ चि॒त्तानि॑ वो हृ॒दि। वि वो॑ धम॒त्वोक॑सः॒ प्र वो॑ धमतु स॒र्वतः॑ ॥२॥ इन्द्र॑ चि॒त्तानि॑ मो॒हय॑न्न॒र्वाङाकू॑त्या चर । अ॒ग्नेर्वात॑स्य॒ ध्राज्या॒ तान् विषू॑चो॒ वि ना॑शय ॥३॥ व्याऽकूतय एषामि॒ताथो॑ चि॒त्तानि॑ मुह्यत । अथो॒ यद॒द्यैषां॑ हृदि तदे॑षां॒ परि॒ निर्ज॑हि ॥४॥ अ॒मीषां॑ चि॒त्तानि॑ प्रतिमो॒हय॑न्ती गृहा॒णाङ्गा॑न्यप्वे॒ परे॑हि । अ॒भि प्रेहि॒ निर्द॑ह हृ॒त्सु शोकै॒र्ग्राह्या॒मित्रां॒स्तम॑सा विध्य॒ शत्रू॑न्॥५॥ अ॒सौ या सेना॑ मरुतः॒ परे॑षाम॒स्मा॑नैत्य॒भ्योज॑सा॒ स्पर्ध॑माना । तां वि॑ध्यत॒ तम॒साप॑व्रतेन॒ यथै॑षाम॒न्यो अ॒न्यं न जा॒नात्॥६॥
›स्वराज्ये राज्ञः पुनः स्थापननम्। १-६ अथर्वा। १ अग्निः, २ इन्द्रः, ३ वरुणः सोमः इन्द्रः, ४ श्येनः अश्विनौ, ५ इन्द्राग्नी विश्वे देवाः, ६ इन्द्रः। त्रिष्टुप्, ३ चतुष्पदा भुरिक्पङ्क्तिः, ५-६ अनुष्टुप्। अ॑चिक्रदत् स्व॒पा इ॒ह भु॑व॒दग्ने॒ व्यऽचस्व॒ रोद॑सी उरू॒ची। यु॒ञ्जन्तु॑ त्वा म॒रुतो॑ वि॒श्ववे॑दस॒ आमुं न॑य॒ नम॑सा रा॒तह॑व्यम्॥१॥ दू॒रे चि॒त् सन्त॑मरु॒षास॒ इन्द्र॒मा च्या॑वयन्तु स॒ख्याय॒ विप्र॑म्। यद् गा॑य॒त्रीं बृ॑ह॒तीम॒र्कम॑स्मै सौत्राम॒ण्या दधृ॑षन्त दे॒वाः ॥२॥ अ॒द्भ्यस्त्वा॒ राजा॒ व॑रुणो ह्वयतु॒ सोम॑स्त्वा ह्वयतु॒ पर्व॑तेभ्यः । इन्द्र॑स्त्वा ह्वयतु वि॒ड्भ्य॑ आ॒भ्यः श्ये॒नो भू॒त्वा विश॒ आ प॑ते॒माः ॥३॥ श्ये॒नो ह॒व्यं न॑य॒त्वा पर॑स्मादन्यक्षे॒त्रेअप॑रुद्धं॒ चर॑न्तम्। अ॒श्विना॒ पन्थां॑ कृणुतां सु॒गं त॑ इ॒मं स॑जाता अभि॒संवि॑शध्वम्॥४॥ ह्वय॑न्तु त्वा प्रतिज॒नाः प्रति॑ मित्रा अ॑वृषत । इ॒न्द्रा॒ग्नी विश्वे॑ दे॒वास्ते वि॒शि क्षेम॑मदीधरन्॥५॥ यस्ते॒ हवं वि॒वद॑त् सजा॒तो यश्च॒ निष्ट्यः॑ । अ॑पाञ्चमिन्द्र॒ तं कृ॒त्वाथे॒ममि॒हाव॑ गमय ॥६॥
›प्रजाभी राज्ञः संवरणम्। १-७ अथर्वा। इन्द्रः, २ पञ्च प्रदिशः, ४ अश्विनौ, मित्रावरुणौ, विश्वे देवाः, मरुतः, ५ द्यावापृथिवी। त्रिष्टुप्, १ जगती, ४-५ भुरिक्। आ त्वा॑ गन् रा॒ष्ट्रं स॒ह वर्च॒सोदि॑हि प्रा॑ङ्वि वि॒शां पति॑रेक॒राट् त्वं वि रा॑ज । सर्वा॑स्त्वा राजन् प्र॒दिशो॑ ह्वयन्तूप॒सद्यो॑ नम॒स्योऽ भवे॒ह॥१॥ त्वां विशो॑ वृणतां रा॒ज्याऽय॒ त्वामि॒माः प्र॒दिशः॒ पञ्च॑ दे॒वीः । वर्ष्म॑न् रा॒ष्ट्रस्य॑ क॒कुदि॑ श्रयस्व॒ ततो॑ न उ॒ग्रो वि भ॑जा॒ वसू॑नि ॥२॥ अच्छ॑ त्वा यन्तु ह॒विनः॑ सजा॒ता अ॒ग्निर्दू॒तो अ॑जि॒रः सं च॑रातै । जा॒याः पु॒त्राः सु॒मन॑सो भवन्तु ब॒हुं ब॒लिं प्रति॑ पश्यासा उ॒ग्रः ॥३॥ अ॒श्विना॒ त्वाग्रे॑ मि॒त्रावरु॑णो॒भा विश्वे॑ दे॒वा म॒रुत॑स्त्वा ह्वयन्तु । अधा॒ मनो॑ वसु॒देया॑य कृणुष्व॒ ततो॑ न उ॒ग्रो वि भ॑जा॒ वसू॑नि ॥४॥ आ प्र द्र॑व पर॒मस्याः॑ परा॒वतः॑ शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म्। तद॒यं राजा॒ वरु॑ण॒स्तथा॑ह॒ स त्वा॒यम॑ह्व॒त् स उपे॒दमेहि॑ ॥५॥ इन्द्रे॑न्द्र मनु॒ष्याः॒३ परे॑हि॒ सं ह्यज्ञा॑स्था॒ वरु॑णैः संविदा॒नः । स त्वा॒यम॑ह्व॒त् स्वे स॒धस्थे॒ स दे॒वान् य॑क्ष॒त् स उ॑ कल्पया॒द् विशः॑ ॥६॥ प॒थ्याऽ रे॒वती॑र्बहु॒धा विरू॑पाः॒ सर्वाः॑ सं॒गत्य॒ वरी॑यस्ते अक्रन्। तास्त्वा॒ सर्वाः॑ संविदा॒ना ह्व॑यन्तु दश॒मीमु॒ग्रः सु॒मना॑ वशे॒ह॥७॥
›राष्ट्रस्य राजा राजकृतश्च / १-८ अथर्वा। सोमः। १ पुरोऽनुष्टुप् त्रिष्टुप्, २-३, ५-७ अनुष्टुप्, ४ त्रिष्टुप्, ८ विराडुरोबृहती। आयम॑गन् पर्णम॒णिर्ब॒ली बले॑न प्रमृ॒णन्त्स॒पत्ना॑न्। ओजो॑ दे॒वानां॒ पय॒ ओष॑धीनां॒ वर्च॑सा मा जिन्व॒त्वप्र॑यावन्॥१॥ मयि॑ क्ष॒त्रं प॑र्णमणे॒ मयि॑ धारयताद् र॒यिम्। अ॒हं रा॒ष्ट्रस्या॑भीव॒र्गे नि॒जो भू॑यासमुत्त॒मः ॥२॥ यं नि॑द॒धुर्वन॒स्पतौ॒ गुह्यं॑ दे॒वाः प्रि॒यं म॒णिम्। तम॒स्मभ्यं॑ स॒हायु॑षा दे॒वा द॑दतु॒ भर्त॑वे ॥३॥ सोम॑स्य प॒र्णः सह॑ उ॒ग्रमाग॒न्निन्द्रे॑ण द॒त्तो वरु॑णेन शि॒ष्टः । तं प्रि॑यासं ब॒हु रोच॑मानो दीर्घायु॒त्वाय॑ श॒तशा॑रदाय ॥४॥ आ मा॑रुक्षत् पर्णम॒णिर्म॒ह्या अ॑रि॒ष्टता॑तये । यथा॒हमु॑त्त॒रोऽसा॑न्यर्य॒म्ण उ॒त सं॒विदः॑ ॥५॥ ये धीवा॑नो रथका॒राः क॒र्मारा॒ ये म॑नी॒षिणः॑ । उ॒प॒स्तीन् प॑र्ण॒ मह्यं॒ त्वं सर्वा॑न् कृण्व॒भितो॒ जना॑न्॥६॥ ये राजा॑नो राज॒कृतः॑ सू॒ता ग्रा॑म॒ण्यऽश्च॒ ये। उ॒प॒स्तीन् प॑र्ण॒ मह्यं॒ त्वं सर्वा॑न् कृण्व॒भितो॒ जनान्॥७॥ प॒र्णोऽसि तनू॒पानः॒ सयो॑निर्वी॒रो वी॒रेण॒ मया॑ । सं॒व॒त्स॒रस्य॒ तेज॑सा॒ तेन॒ बध्नामि त्वा मणे ॥८॥
›शत्रुनाशनम्। १-८ जगद्वीजं पुरुषः। वानस्पत्योऽश्वत्थः। अनुष्टुप्। पुमा॑न् पुंसः परि॑जातोऽश्व॒त्थः ख॑दि॒रादधि॑ । स ह॑न्तु॒ शत्रू॑न् माम॒कान् यान॒हं द्वेष्मि॒ ये च॒ माम्॥१॥ तान॑श्वत्थ॒ निः शृ॑णीहि॒ शत्रू॑न् वैबाध॒दोध॑तः । इन्द्रे॑ण वृत्र॒घ्ना मे॒दी मि॒त्रेण॒ वरु॑णेन च ॥२॥ यथा॑श्वत्थ नि॒रभ॑नो॒ऽन्तर्म॑ह॒त्यऽर्ण॒वे। ए॒वा तान्त्सर्वा॒न् निर्भ॑ङ्ग्धि॒ यान॒हं द्वेष्मि॒ ये च॒ माम्॥३॥ यः सह॑मान॒श्चर॑सि सासहा॒न इव ऋष॒भः । तेना॑श्वत्थ॒ त्वया॑ व॒यं स॒पत्ना॑न्त्सहिषीमहि ॥४॥ सि॒नात्वे॑ना॒न् निरृ॑तिर्मृ॒त्योः पाशै॑रमो॒क्यैः । अश्व॑त्थ॒ शत्रू॑न् माम॒कान् यान॒हं द्वेष्मि॒ ये च॒ माम्॥५॥ यथा॑श्वत्थ वानस्प॒त्याना॒रोह॑न् कृणु॒षेऽध॑रान्। ए॒वा मे॒ शत्रो॑र्मू॒र्धानं॒ विष्व॑ग् भिन्द्धि॒ सह॑स्व च ॥६॥ तेऽध॒राञ्चः॒ प्र प्ल॑वन्तां छि॒न्ना नौरि॑व॒ बन्ध॑नात्। न वै॑बा॒धप्र॑णुत्तानां॒ पुन॑रस्ति नि॒वर्त॑नम्॥७॥ प्रैणा॑न् नुदे॒ मन॑सा॒ प्र चि॒त्ते॑नो॒त ब्रह्म॑णा । प्रैणा॑न् वृ॒क्षस्य॒ शाख॑याश्व॒त्थस्य॑ नुदामहे ॥८॥
›यक्ष्मनाशनम्। १-७ भृग्वङ्गिराः। १-३ हरिणः, ४ तारके, ५ आपः, ६-७ यक्ष्मनाशनम्। अनुष्टुप्, ६ भुरिक्। ह॒रि॒णस्य॑ रघु॒ष्यदोऽधि॑ शी॒र्षणि॑ भेष॒जम्। स क्षे॑त्रि॒यं वि॒षाण॑या विषू॒चीन॑मनीनशत्॥१॥ अनु॑ त्वा हरि॒णो वृषा॑ प॒द्भिश्च॒तुर्भि॑रक्रमीत्। विषा॑णे॒ वि ष्य॑ गुष्पि॒तं यद॑स्य क्षेत्रि॒यं हृ॒दि॥२॥ अ॒दो यद॑व॒रोच॑ते॒ चतु॑ष्पक्षमिव च्छ॒दिः । तेना॑ ते॒ सर्वं॑ क्षेत्रि॒यमङ्गे॑भ्यो नाशयामसि ॥३॥ अ॒मू ये दि॒वि सु॒भगे॑ वि॒चृतौ॒ नाम॒ तार॑के । वि क्षे॑त्रि॒यस्य॑ मुञ्चतामध॒मं पाश॑मुत्त॒मम्॥४॥ आप॒ इद् वा उ॑ भेष॒जीरापो॑ अमीव॒चात॑नीः । आपो॒ विश्व॑स्य भेष॒जीस्तास्त्वा॑ मुञ्चन्तु क्षेत्रि॒यात्॥५॥ यदा॑सु॒तेः क्रि॒यमा॑णायाः क्षेत्रि॒यं त्वा॑ व्यान॒शे। वेदा॒हं तस्य॑ भेष॒जं क्षे॑त्रि॒यं ना॑शयामि॒ त्वत्॥६॥ अ॒प॒वा॒से नक्ष॑त्राणामपवा॒स उ॒षसा॑मु॒त। अपा॒स्मत् सर्वं॑ दुर्भू॒तमप॑ क्षेत्रि॒यमु॑च्छतु ॥७॥
›राष्ट्रधारणम्। १-६ अथर्वा। १ मित्रः, पृथिवी, वरुणः, वायुः, अग्निः, २ धाता, सविता, इन्द्रः, त्वष्टा, अदितिः, ३ सोमः, सविता, आदित्यः, अग्निः, ४ विश्वे देवाः, ५-६ सांमनस्यम्। त्रिष्टुप्, २-३ जगती, ४ चतुष्पदा विराड् बृहतीगर्भा, ५ अनुष्टुप्। आ या॑तु मि॒त्र ऋ॒तुभिः॒ कल्प॑मानः संवे॒शय॑न् पृथि॒वीमु॒स्रिया॑भिः । अथा॒स्मभ्यं॒ वरु॑णो वा॒युर॒ग्निर्बृ॒हद् रा॒ष्ट्रं सं॑वे॒श्यंऽ दधातु ॥१॥ धा॒ता रा॒तिः स॑वि॒तेदं जु॑षन्ता॒मिन्द्र॒स्त्वष्टा॒ प्रति॑ हर्यन्तु मे॒ वचः॑ । हु॒वे दे॒वीमदि॑तिं॒ शूर॑पुत्रां सजा॒तानां॑ मध्यमे॒ष्ठा यथासा॑नि ॥२॥ हु॒वे सोमं॑ सवि॒तारं॒ नमो॑भि॒र्विश्वा॑नादि॒त्याँ अ॒हमु॑त्तर॒त्वे। अ॒यम॒ग्निर्दी॑दायद् दी॒र्घमे॒व स॑जा॒तैरि॒द्धोऽप्र॑तिब्रुवद्भिः ॥३॥ इ॒हेद॑साथ॒ न प॒रो ग॑मा॒थेर्यो॑ गो॒पाः पु॑ष्ट॒पति॑र्व॒ आज॑त्। अ॒स्मै कामा॒योप॑ का॒मिनी॒र्विश्वे॑ वो दे॒वा उ॑प॒संय॑न्तु ॥४॥ सं वो॒ मनां॑सि॒ सं व्र॒ता समाकू॑तीर्नमामसि । अ॒मी ये विव्र॑ता॒ स्थन॒ तान् वः॒ सं न॑मयामसि ॥५॥ अ॒हं गृ॑भ्णामि॒ मन॑सा॒ मनां॑सि॒ मम॑ चि॒त्तमनु॑ चि॒त्तेभि॒रेत॑ । मम॒ वशे॑षु॒ हृद॑यानि वः कृणोमि॒ मम॑ या॒तमनु॑वर्त्मान॒ एत॑ ॥६॥
›दुःखनाशनम्। १-६ वामदेवः। द्यावापृथिवी, देवाः। अनुष्टुप्, ४ चतुष्पदा निचृद्बृहती, ६भुरिक्। क॒र्शफ॑स्य विश॒फस्य॒ द्यौः पि॒ता पृ॑थि॒वी मा॒ता। यथा॑भिच॒क्र दे॑वा॒स्तथाप॑ कृणुता॒ पुनः॑ ॥१॥ अ॒श्रे॒ष्माणो॑ अधारय॒न् तथा॒ तन्मनु॑ना कृ॒तम्। कृणोमि॒ वध्रि॒ विष्क॑न्धं मुष्काब॒र्हो गवा॑मिव ॥२॥ पि॒शङ्गे॒ सूत्रे॒ खृग॑लं॒ तदा ब॑ध्नन्ति वे॒धसः॑ । श्र॒व॒स्युं शुष्मं॑ काब॒वं वध्रिं॑ कृण्वन्तु ब॒न्धुरः॑ ॥३॥ येना॑ श्रवस्यव॒श्चर॑थ दे॒वा इ॑वासुरमा॒यया॑ । शुनां॑ क॒पिरि॑व॒ दूष॑णो॒ बन्धु॑रा काब॒वस्य॑ च ॥४॥ दुष्ट्यै॒ हि त्वा॑ भ॒त्स्यामि॑ दूषयि॒ष्यामि॑ काब॒वम्। उदा॒शवो॒ रथा॑ इव श॒पथे॑भिः सरिष्यथ ॥५॥ एक॑शतं॒ विष्क॑न्धानि॒ विष्ठि॑ता पृथि॒वीमनु॑ । तेषां॒ त्वामग्रे॒ उज्ज॑हरुर्म॒णिं वि॑ष्कन्ध॒दूष॑णम्॥६॥
›रायस्पोषप्राप्तिः। १-१३ अथर्वा। अष्टका, धेनुः, २-४ रात्रिः, धेनुः, ५ एकाष्टका, ६ जातवेदाः, पशवः, ७ रात्रिः, यज्ञ ८ संवत्सरः, ९ ऋतवः, १० धाता विधातारौ, ऋतवः, ११ देवाः, १२ इन्द्रः, देवाः, १३ प्रजापतिः। अनुष्टुप्, ४-६,१२ त्रिष्टुप् ७ त्र्यवसाना षट्पदा विराड् गर्भातिजगती। प्र॒थ॒मा ह॒ व्युऽवास॒ सा धे॒नुर॑भवद् य॒मे। सा नः॒ पय॑स्वती दुहा॒मुत्त॑रामुत्तरां॒ समा॑म्॥१॥ यां दे॒वाः प्र॑ति॒नन्द॑न्ति॒ रात्रिं॑ धे॒नुमु॑पाय॒तीम्। सं॒व॒त्स॒रस्य॒ या पत्नी॒ सा नो॑ अस्तु सुमङ्ग॒ली॥२॥ सं॒व॒त्स॒रस्य॑ प्रति॒मां यां त्वा॑ रात्र्यु॒पास्म॑हे । सा न॒ आयु॑ष्मतीं प्र॒जां रा॒यस्पोषे॑ण॒ सं सृ॑ज ॥३॥ इ॒यमे॒व सा या प्र॑थ॒मा व्यौच्छ॑दा॒स्वित॑रासु चरति॒ प्रवि॑ष्टा । म॒हान्तो॑ अस्यां महि॒मानो॑ अ॒न्तर्व॒धूर्जि॑गाय नव॒गज्जनि॑त्री ॥४॥ वा॒न॒स्प॒त्या ग्रावा॑णो॒ घोष॑मक्रत ह॒विष्कृ॒ण्वन्तः॑ परिवत्स॒रीण॑म्। एका॑ष्टके सुप्र॒जसः॑ सु॒वीरा॑ व॒यं स्या॑म॒ पत॑यो रयी॒णाम्॥५॥ इडा॑यास्प॒दं घृ॒तव॑त् सरीसृ॒पं जात॑वेदः॒ प्रति॑ ह॒व्या गृ॑भाय । ये ग्रा॒म्याः प॒शवो॑ वि॒श्वरू॑पा॒स्तेषां सप्ता॒नां मयि॒ रन्ति॑रस्तु ॥६॥ आ मा॑ पु॒ष्टे च॒ पोषे॑ च॒ रात्रि॑ दे॒वानां॑ सुम॒तौ स्या॑म । पू॒र्णा द॑र्वे॒ परा॑ पत॒ सुपू॑र्णा॒ पुन॒रा प॑त । सर्वान् य॒ज्ञान्त्सं॑भुञ्ज॒तीषमूर्जं॑ न॒ आ भ॑र ॥७॥ आयम॑गन्त्संवत्स॒रः पति॑रेकाष्टके॒ तव॑ । सा न॒ आयु॑ष्मतीं प्र॒जां रा॒यस्पोषे॑ण॒ सं सृ॑ज ॥८॥ ऋ॒तून् य॑ज ऋतु॒पती॑नार्त॒वानु॒त हा॑य॒नान्। समाः॑ संवत्स॒रान् मासा॑न् भू॒तस्य॒ पत॑ये यजे ॥९॥ ऋ॒तुभ्य॑ष्ट्वार्त॒वेभ्यो॑ मा॒द्भ्यः सं॑वत्स॒रेभ्यः॑ । धा॒त्रे वि॑धा॒त्रे स॒मृधे॑ भू॒तस्य॒ पत॑ये यजे ॥१०॥ इड॑या॒ जुह्व॑तो व॒यं दे॒वान् घृ॒तव॑ता यजे । गृ॒हानलु॑भ्यतो व॒यं सं वि॑शे॒मोप॒ गोम॑तः ॥११॥ ए॒का॒ष्ट॒का तप॑सा त॒प्यमा॑ना ज॒जान॒ गर्भं॑ महि॒मान॒मिन्द्र॑म्। तेन॑ दे॒वा व्यऽसहन्त॒ शत्रू॑न् ह॒न्ता दस्यू॑नामभव॒च्छची॒पतिः॑ ॥१२॥ इन्द्र॑पुत्रे॒ सोम॑पुत्रे दुहि॒तासि॑ प्र॒जाप॑तेः । कामा॑न॒स्माकं॑ पूरय॒ प्रति॑ गृह्णाहि नो ह॒विः ॥१३॥
›दीर्घायुः प्राप्तिः। १-८ ब्रह्मा, भृग्वङ्गिराश्च। इन्द्राग्नी, आयुष्यं, यक्ष्मनाशनम्। त्रिष्टुप्, ४ शक्करीगर्भा जगती, ५-६ अनुष्टुप्, ७ उष्णिग्बृहतीगर्भा पथ्यापङ्क्तिः, ८ त्र्यवसाना षट् पदा बृहतीगर्भा जगती। मु॒ञ्चामि॑ त्वा ह॒विषा॒ जीव॑नाय॒ कम॑ज्ञातय॒क्ष्मादु॒त रा॑जय॒क्ष्मात्। ग्राहि॑र्ज॒ग्राह॒ यद्ये॒तदे॑नं॒ तस्या॑ इन्द्राग्नी॒ प्र मु॑मुक्तमेनम्॥१॥ यदि॑ क्षि॒तायु॒र्यदि॑ वा॒ परे॑तो॒ यदि॑ मृ॒त्योर॑न्ति॒कं नी॑त ए॒व। तमा ह॑रामि॒ निरृ॑तेरु॒पस्था॒दस्पा॑र्शमेनं श॒तशा॑रदाय ॥२॥ स॒ह॒स्रा॒क्षेण॑ श॒तवी॑र्येण श॒तायु॑षा ह॒विषाहा॑र्षमेनम्। इन्द्रो॒ यथै॑नं श॒रदो॒ नया॒त्यति॒ विश्व॑स्य दुरि॒तस्य॑ पा॒रम्॥३॥ श॒तं जी॑व श॒रदो॒ वर्ध॑मानः श॒तं हे॑म॒न्तान् छ॒तमु॑ वस॒न्तान्। श॒तं त॒ इन्द्रो॑ अ॒ग्निः स॑वि॒ता बृह॒स्पतिः॑ श॒तायु॑षा ह॒विषाहा॑र्षमेनम्॥४॥ प्र वि॑शतं प्राणापानावन॒ड्वाहा॑विव व्र॒जम्। व्य॑१न्ये य॑न्तु मृ॒त्यवो॒ याना॒हुरित॑रान् छ॒तम्॥५॥ इ॒हैव स्तं॑ प्राणापानौ॒ माप॑ गातमि॒तो यु॒वम्। शरी॑रम॒स्याङ्गा॑नि ज॒रसे॑ वहतं॒ पुनः॑ ॥६॥ ज॒रायै॑ त्वा॒ परि॑ ददामि ज॒रायै॒ नि धु॑वामि त्वा । ज॒रा त्वा॑ भ॒द्रा ने॑ष्ट॒ व्य॑१न्ये य॑न्तु मृ॒त्यवो॒ याना॒हुरित॑रान् छ॒तम्॥७॥ अ॒भि त्वा॑ जरि॒माहि॑त॒ गामु॒क्षण॑मिव॒ रज्ज्वा । यस्त्वा॑ मृ॒त्युर॒भ्यध॑त्त॒ जाय॑मानं सुपा॒शया॑ । तं ते॑ स॒त्यस्य॒ हस्ता॑भ्या॒मुद॑मुञ्च॒द् बृह॒स्पतिः॑ ॥८॥
›शालानिर्माणम्। १-९ ब्रह्मा। शाला, वास्तोष्पतिः। त्रिष्टुप्, २ विराड् जगती, ३ बृहती, ६ शक्वरीगर्भा जगती, ७ आर्षी अनुष्टुप्, ८ भुरिक्, ९अनुष्टुप्। इ॒हैव ध्रु॒वां नि मि॑नोमि॒ शालां॒ क्षेमे॑ तिष्ठाति घृ॒तमु॒क्षमा॑णा । तां त्वा॑ शाले॒ सर्व॑वीराः सु॒वीरा॒ अरि॑ष्टवीरा॒ उप॒ सं च॑रेम ॥१॥ इ॒हैव ध्रु॒वा प्रति॑ तिष्ठ शा॒लेऽश्वा॑वती॒ गोम॑ती सू॒नृता॑वती । ऊर्ज॑स्वती घृ॒तव॑ती॒ पय॑स्व॒त्युच्छ्र॑यस्व मह॒ते सौभ॑गाय ॥२॥ ध॒रु॒ण्य॒ऽसि शाले बृ॒हच्छ॑न्दाः॒ पूति॑धान्या । आ त्वा॑ व॒त्सो ग॑मे॒दा कु॑मा॒र आ धे॒नवः॑ सा॒यमा॒स्पन्द॑मानाः ॥३॥ इ॒मां शालां॑ सवि॒ता वा॒युरिन्द्रो॒ बृह॒स्पति॒र्नि मि॑नोतु प्रजा॒नन्। उ॒क्षन्तू॒द्ना म॒रुतो॑ घृ॒तेन॒ भगो॑ नो॒ राजा॒ नि कृ॒षिं त॑नोतु ॥४॥ मान॑स्य पत्नि शरणा स्योना दे॒वी दे॒वेभि॒र्निमिता॒स्यग्रे॑ । तृणं॒ वसा॑ना सु॒मना॑ अस॒स्त्वमथा॒स्मभ्यं॑ स॒हवी॑रं र॒यिं दाः॑ ॥५॥ ऋ॒तेन॑ स्थूणा॒मधि॑ रोह वंशो॒ग्रो वि॒राज॒न्नप॑ वृङ्क्ष्व॒ शत्रू॑न्। मा ते॑ रिषन्नुपस॒त्तारो॑ गृ॒हाणां॑ शाले श॒तं जी॑वेम श॒रदः॒ सर्व॑वीराः ॥६॥ एमां कु॑मा॒रस्तरु॑ण॒ आ व॒त्सो जग॑ता स॒ह। एमां प॑रि॒स्रुतः॑ कु॒म्भ आ द॒ध्नः क॒लशै॑रगुः ॥७॥ पू॒र्णं ना॑रि॒ प्र भ॑र कु॒म्भमे॒तं घृ॒तस्य॒ धारा॑म॒मृते॑न॒ संभृ॑ताम्। इ॒मां पा॒तॄन॒मृते॑ना॒ सम॑ङ्ग्धीष्टापू॒र्तम॒भि र॑क्षात्येनाम्॥८॥ इ॒मा आपः॒ प्र भ॑राम्यय॒क्ष्मा य॑क्ष्म॒नाश॑नीः । गृ॒हानुप॒ प्र सी॑दाम्य॒मृते॑न स॒हाग्निना॑ ॥९॥
›आपः। १-७ भृगुः। वरुणः, सिन्धुः, आपः, २-३ इन्द्रः। अनुष्टुप्, १ निचृत्, ५ विराड् जगती, ६ निचृदगनुष्टुप्। यद॒दः सं॑प्रय॒तीरहा॒वन॑दता हते॑। तस्मा॒दा न॒द्यो॒३ नाम॑ स्थ॒ ता वो॒ नामा॑नि सिन्धवः ॥१॥ यत् प्रेषि॑ता॒ वरु॑णे॒नाच्छीभं॑ स॒मव॑ल्गत । तदा॑प्नो॒दिन्द्रो॑ वो य॒तीस्तस्मा॑दापो॒ अनु॑ ष्ठन ॥२॥ अ॒प॒का॒मं स्यन्द॑माना॒ अवी॑वरत वो॒ हि क॑म्। इन्द्रो॑ वः॒ शक्ति॑भिर्देवी॒स्तस्मा॒द् वार्नाम॑ वो हि॒तम्॥३॥ एको॑ वो दे॒वोऽप्य॑तिष्ठ॒त् स्यन्द॑माना यथाव॒शम्। उदा॑निषुर्म॒हीरिति॒ तस्मा॑दुद॒कमु॑च्यते ॥४॥ आपो॑ भ॒द्रा घृ॒तमिदाप॑ आसन्न॒ग्नीषोमौ॑ बिभ्र॒त्याप॒ इत् ताः। ती॒व्रो रसो॑ मधुपृचा॑मरंग॒म आ मा॑ प्रा॒णेन॑ स॒ह वर्च॑सा गमेत्॥५॥ आदित् प॑श्याम्यु॒त वा॑ शृणो॒म्या मा॒ घोषो॑ गच्छति॒ वाङ् मा॑साम्। मन्ये॑ भेजा॒नो अ॒मृत॑स्य तर्हि॒ हिर॑ण्यवर्णा॒ अतृ॑पं य॒दा वः॑ ॥६॥ इ॒दं व॑ आपो॒ हृद॑यम॒यं व॒त्स ऋ॑तावरीः । इ॒हेत्थमेत॑ शक्वरी॒र्यत्रे॒दं वे॒शया॑मि वः ॥७॥
›गोष्ठः। १-६ ब्रह्मा। गोष्ठः, अहः, २ अर्यमा, पूषा, बृहस्पतिः, इन्द्रः, १-६ गावः, ५ गोष्ठश्च। अनुष्टुप्, ६आर्षी त्रिष्टुप्। सं वो॑ गो॒ष्ठेन॑ सु॒षदा॒ सं र॒य्या सं सुभू॑त्या । अह॑र्जातस्य॒ यन्नाम॒ तेना॒ वः॒ सं सृ॑जामसि ॥१॥ सं वः॑ सृजत्वर्य॒मा सं पू॒षा सं बृह॒स्पतिः॑ । समिन्द्रो॒ यो ध॑नंज॒यो मयि॑ पुष्यत॒ यद् वसु॑ ॥२॥ सं॒ज॒ग्मा॒ना अबि॑भ्युषीर॒स्मिन् गो॒ष्ठे क॑री॒षिणीः॑ । बिभ्र॑तीः सो॒म्यं मध्व॑नमी॒वा उ॒पेत॑न ॥३॥ इ॒हैव गा॑व॒ एत॑ने॒हो शके॑व पुष्यत । इ॒हैवोत प्र जा॑यध्वं॒ मयि॑ सं॒ज्ञान॑मस्तु वः ॥४॥ शि॒वो वो॑ गो॒ष्ठो भ॑वतु शारि॒शाके॑व पुष्यत । इ॒हैवोत प्र जा॑यध्वं॒ मया॑ वः॒ सं सृ॑जामसि ॥५॥ मया॑ गावो॒ गोप॑तिना सचध्वम॒यं वो॑ गो॒ष्ठ इ॒ह पो॑षयि॒ष्णुः । रा॒यस्पोषे॑ण बहु॒ला भव॑न्तीर्जी॒वा जीव॑न्ती॒रुप॑ वः सदेम ॥६॥
›वाणिज्यम्। १-८ अथर्वा (पण्यकामः)। विश्वे देवाः, इन्द्राग्नी। त्रिष्टुप्,१ भुरिक्, ४ त्र्यवसाना षट् पदा बृहतीगर्भा विराडत्यष्टिः, ५ विराड्जगती, ७ अनुष्टुप्, ८ निचृत्। इन्द्र॑म॒हं व॒णिजं॑ चोदयामि॒ स न॒ ऐतु॑ पुरए॒ता नो॑ अस्तु । नु॒दन्नरा॑तिं परिप॒न्थिनं॑ मृ॒गं स ईशा॑नो धन॒दा अ॑स्तु॒ मह्य॑म्॥१॥ ये पन्था॑नो ब॒हवो॑ देव॒याना॑ अन्त॒रा द्यावा॑पृथि॒वी सं॒चर॑न्ति । ते मा॑ जुषन्तां॒ पय॑सा घृ॒तेन॒ यथा॑ क्री॒त्वा धन॑मा॒हरा॑णि ॥२॥ इ॒ध्मेना॑ग्न इ॒च्छमा॑नो घृ॒ते॑न जुहो॑मि ह॒व्यं त॑रसे॒ बला॑य । याव॒दीशे॒ ब्रह्म॑णा॒ वन्द॑मान इ॒मां धियं॑ शत॒सेया॑य दे॒वीम्॥३॥ इ॒माम॑ग्ने श॒रणिं॑ मीमृषो नो॒ यमध्वा॑न॒मगा॑म दू॒रम्। शु॒नं नो॑ अस्तु प्रप॒णो वि॑क्र॒यश्च॑ प्रतिप॒णः फ॒लिनं॑ मा कृणोतु । इ॒दं ह॒व्यं सं॑विदा॒नौ जु॑षेथां शु॒नं नो॑ अस्तु चरि॒तमुत्थि॑तं च ॥४॥ येन॒ धने॑न प्रप॒णं चरा॑मि॒ धने॑न देवा॒ धन॑मि॒च्छमा॑नः । तन्मे॒ भूयो॑ भवतु॒ मा कनी॒योऽग्ने॑ सात॒घ्नो दे॒वान् ह॒विषा॒ नि षे॑ध ॥५॥ येन॒ धने॑न प्रप॒णं चरा॑मि॒ धने॑न दे॒वा धन॑मि॒च्छमा॑नः । तस्मि॑न् म॒ इन्द्रो॒ रुचि॒मा द॑धातु प्र॒जाप॑तिः सवि॒ता सोमो॑ अ॒ग्निः ॥६॥ उप॑ त्वा॒ नम॑सा व॒यं होत॑र्वैश्वानर स्तु॒मः । स नः॑ प्र॒जास्वा॒त्मसु गोषु॑ प्रा॒णेषु॑ जागृहि ॥७॥ वि॒श्वाहा॑ ते॒ सद॒मिद् भ॑रे॒माश्वा॑येव॒ तिष्ठ॑ते जातवेदः । रा॒यस्पोषे॑ण॒ समि॒षा मद॑न्तो॒ मा ते॑ अग्ने॒ प्रति॑वेशा रिषाम ॥८॥
›स्वस्तये प्रार्थना। १-७ अथर्वा। १ अग्निः, इन्द्रः, मित्रावरुणौ, अश्विनौ, भगः, पूषा, ब्रह्मणस्पतिः, सोमः, रुद्रः, २-३ ५ भगः, आदित्यः, ४ इन्द्रः, ६ दधिक्रवा, अश्वाः, ७ उषाः। त्रिष्टुप्, १ आर्षी जगती, ४ भुरिक् पङ्क्तिः। प्रा॒तर॒ग्निं प्रा॒तरिन्द्रं॑ हवामहे प्रा॒तर्मि॒त्रावरु॑णा प्रा॒तर॒श्विना॑ । प्रा॒तर्भगं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॑ प्रा॒तः सोम॑मु॒त रु॒द्रं ह॑वामहे ॥१॥ प्रा॒त॒र्जितं॒ भग॑मु॒ग्रं ह॑वामहे व॒यं पु॒त्रमदि॑ते॒र्यो वि॑ध॒र्ता। आ॒ध्रश्चि॒द् यं मन्य॑मानस्तु॒रश्चि॒द् राजा॑ चि॒द् यं भगं॑ भ॒क्षीत्याह॑ ॥२॥ भग॒ प्रणे॑त॒र्भग॒ सत्य॑राधो॒ भगे॒मां धिय॒मुद॑वा॒ दद॑न्नः । भग॒ प्र णो॑ जनय॒ गोभि॒रश्वै॒र्भग॒ प्र नृभि॑र्नृ॒वन्तः॑ स्याम ॥३॥ उ॒तेदानीं॒ भग॑वन्तः स्यामो॒त प्र॑पि॒त्व उ॒त मध्ये॒ अह्ना॑म्। उ॒तोदि॑तौ मघव॒न्त्सूर्य॑स्य व॒यं दे॒वानां॑ सुम॒तौ स्या॑म ॥४॥ भग॑ ए॒व भग॑वाँ अस्तु दे॒वस्तेना॑ व॒यं भग॑वन्तः स्याम । तं त्वा॑ भग॒ सर्व॒ इज्जो॑हवीमि॒ स नो॑ भग पुरए॒ता भ॑वे॒ह॥५॥ सम॑ध्व॒रायो॒षसो॑ नमन्त दधि॒क्रावे॑व॒ शुच॑ये प॒दाय॑ । अ॒र्वा॒ची॒नं व॑सु॒विदं॒ भगं॑ मे॒ रथ॑मि॒वाश्वा॑ वा॒जिन॒ आ व॑हन्तु ॥६॥ अश्वा॑वती॒र्गोम॑तीर्न उ॒षा॑सो॑ वी॒रव॑तीः॒ सद॑मुछन्तु भ॒द्राः । घृ॒तं दुहा॑ना वि॒श्वतः॒ प्रपी॑ता यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥७॥
›कृषिः। १-९ विश्वामित्रः। सीता। अनुष्टुप्, १आर्षी गायत्री, २, ५, ९ त्रिष्टुप्, ३ पथ्यापङ्क्तिः, ७ विराट् पुर उष्णिक्, ८ निचृत्। सीरा॑ युञ्जन्ति क॒वयो॑ यु॒गा वि त॑न्वते॒ पृथ॑क्। धीरा॑ दे॒वेषु॑ सुम्न॒यौ॥१॥ यु॒नक्त॒ सीरा॒ वि यु॒गा त॑नोत कृ॒ते योनौ॑ वपते॒ह बीज॑म्। वि॒राजः॒ श्नुष्टिः॒ सभ॑रा असन्नो॒ नेदी॑य॒ इत् सृ॒ण्यः प॒क्वमा य॑वन्॥२॥ लाङ्ग॑लं पवी॒रव॑त् सु॒शीमं॑ सोम॒सत्स॑रु । उदिद् व॑पतु॒ गामविं॑ प्र॒स्थाव॑द् रथ॒वाह॑नं॒ पीब॑रीं च प्रफ॒र्व्यऽम्॥३॥ इन्द्रः॒ सीतां॒ नि गृ॑ह्णातु॒ तां पू॒षाभि र॑क्षतु । सा नः॒ पय॑स्वती दुहा॒मुत्त॑रामुत्तरां॒ समा॑म्॥४॥ शु॒नं सु॑फा॒ला वि तु॑दन्तु॒ भूमिं॑ शु॒नं की॒नाशा॒ अनु॑ यन्तु वा॒हान्। शुना॑सीरा ह॒विषा॒ तोश॑माना सुपिप्प॒ला ओष॑धीः कर्तम॒स्मै॥५॥ शु॒नं वा॒हाः शु॒नं नरः॑ शु॒नं कृ॑षतु॒ लाङ्ग॑लम्। शु॒नं व॑र॒त्रा ब॑ध्य॒न्तां शु॒नमष्ट्रा॒मुदि॑ङ्गय ॥६॥ शुना॑सीरे॒ह स्म॑ मे जुषेथाम्। यद् दि॒वि च॒क्रथुः॒ पय॒स्तेने॒मामुप॑ सिञ्चतम्॥७॥ सीते॒ वन्दा॑महे त्वा॒र्वाची॑ सुभगे भव । यथा॑ नः सु॒मना॒ असो॒ यथा॑ नः सुफ॒ला भुवः॑ ॥८॥ घृ॒तेन॒ सीता॒ मधु॑ना॒ सम॑क्ता॒ विश्वै॑र्दे॒वैरनु॑मता म॒रुद्भिः॑ । सा नः॑ सीते॒ पय॑सा॒भ्याव॑वृ॒त्स्वोर्ज॑स्वती घृ॒तव॒त् पिन्व॑माना ॥९॥
›वनस्पतिः। १-६ अथर्वा। वनस्पतिः। अनुष्टुप्, ४ अनुष्टुब्गर्भा चतुष्पदा उष्णिक्, ६ उष्णिग्गर्भा पथ्यापङ्क्तिः। इ॒मां ख॑ना॒म्योष॑धिं वी॒रुधां॒ बल॑वत्तमाम्। यया॑ स॒पत्नीं॒ बाध॑ते॒ यया॑ संवि॒न्दते॒ पति॑म्॥१॥ उत्ता॑नपर्णे॒ सुभ॑गे॒ देव॑जूते॒ सह॑स्वति । स॒पत्नीं॑ मे॒ परा॑ णुद॒ पतिं॑ मे॒ केव॑लं कृधि ॥२॥ न॒हि ते॒ नाम॑ ज॒ग्राह॒ नो अ॒स्मिन् र॑मसे॒ पतौ॑ । परा॑मे॒व प॑रा॒वतं॑ स॒पत्नीं॑ गमयामसि ॥३॥ उत्त॑रा॒हमु॑त्तर॒ उत्त॒रेदुत्त॑राभ्यः । अ॒धः स॒पत्नी॒ या ममाध॑रा॒ साध॑राभ्यः ॥४॥ अ॒हम॑स्मि॒ सह॑मा॒नाथो॒ त्वम॑सि सास॒हिः । उ॒भे सह॑स्वती भू॒त्वा स॒पत्नीं॑ मे सहावहै ॥५॥ अ॒भि ते॑ऽधां॒ सह॑माना॒मुप॑ तेऽधां॒ सही॑यसीम्। मामनु॒ प्र ते॒ मनो॑ व॒त्सं गौरि॑व धावतु प॒था वारि॑व धावतु ॥६॥
›अजरं क्षत्रम्। १-८ वसिष्ठः। विश्वे देवाः, चन्द्रमाः, इन्द्रः। अनुष्टुप्, १ पथ्याबृहती, ३ भुरिग्बृहती, ५ त्रिष्टुप्, ६ त्र्यवसाना षट्पदा त्रिष्टुप्ककुम्मतीगर्भातिजगती, ७ विराडास्तारपङ्क्तिः, ८ पथ्यापङ्क्तिः। संशि॑तं म इ॒दं ब्रह्म॒ संशि॑तं वी॒र्य॑१ बल॑म्। संशि॑तं क्ष॒त्रम॒जर॑मस्तु जि॒ष्णुर्येषा॒मस्मि॑ पु॒रोहि॑तः ॥१॥ सम॒हमे॒षां रा॒ष्ट्रं स्या॑मि॒ समोजो॑ वी॒र्य॑१ बल॑म्। वृ॒श्चामि॒ शत्रू॑णां बा॒हून॒नेन॑ ह॒विषा॒हम्॥२॥ नी॒चैः प॑द्यन्ता॒मध॑रे भवन्तु॒ ये नः॑ सू॒रिं म॒घवा॑नं पृत॒न्यान्। क्षि॒णामि॒ ब्रह्म॑णा॒मित्रा॒नुन्न॑यामि॒ स्वान॒हम्॥३॥ तीक्ष्णी॑यांसः पर॒शोर॒ग्नेस्तीक्ष्ण॑तरा उत॑। इन्द्र॑स्य॒ वज्रा॒त् तीक्ष्णी॑यांसो॒ येषा॒मस्मि॑ पु॒रोहि॑तः ॥४॥ ए॒षाम॒हमायु॑धा॒ सं स्या॑म्ये॒षां रा॒ष्ट्रं सुवी॑रं वर्धयामि । ए॒षां क्ष॒त्रम॒जर॑मस्तु जि॒ष्ण्वे॒३षां चि॒त्तं विश्वे॑ऽवन्तु दे॒वाः ॥५॥ उद्ध॑र्षन्तां मघव॒न् वाजि॑ना॒न्युद् वी॒राणां॒ जय॑तामेतु॒ घोषः॑ । पृथ॒ग् घोषा॑ उलु॒लयः॑ केतु॒मन्त॒ उदी॑रताम्। दे॒वा इन्द्र॑ज्येष्ठा म॒रुतो॑ यन्तु॒ सेन॑या ॥६॥ प्रेता॒ जय॑ता नर उ॒ग्रा वः॑ सन्तु बा॒हवः॑ । ती॒क्ष्णेष॑वोऽब॒लध॑न्वनो हतो॒ग्रायु॑धा अब॒लानु॒ग्रबा॑हवः ॥७॥ अव॑सृष्टा॒ परा॑ पत॒ शर॑व्ये॒ ब्रह्म॑संशिते । जया॒मित्रा॒न् प्र प॑द्यस्व ज॒ह्येऽषां॒ वरं॑वरं॒ मामीषां॑ मोचि॒ कश्च॒न॥८॥
›रयिसंवर्धनम्। १-१० वसिष्ठः। १-२ अग्निःच ३ अर्यमा, भगः, बृहस्पतिः, देवीः, ४ सोमः, अग्निः, आदित्यः, विष्णुः, ब्रह्मा, बृहस्पतिः, ५ अग्निः, ६ इन्द्रवायू, ७ अर्यमा, बृहस्पतिः, इन्द्रः, वातः, विष्णुः, सरस्वती, सविता, वाजी, ८ विश्वा भुवनानि, ९ पञ्च प्रदिशः, १० वायुस्त्वष्टा। अनुष्टुप्, ६ पथ्यापङ्क्तिः, ८ विराड् जगती। अ॒यं ते॒ योनि॑रृ॒त्वियो॒ यतो॑ जा॒तो अरो॑चथाः । तं जा॒नन्न॑ग्न॒ आ रो॒हाधा॑ नो बर्धय र॒यिम्॥१॥ अग्ने॒ अच्छा॑ वदे॒ह नः॑ प्र॒त्यङ् नः॑ सु॒मना॑ भव । प्र णो॑ यच्छ विशां पते धन॒दा अ॑सि न॒स्त्वम्॥२॥ प्र णो॑ यच्छत्वर्य॒मा प्र भगः॒ प्र बृह॒स्पतिः॑ । प्र दे॒वीः प्रोत सू॒नृता॑ र॒यिं दे॒वी द॑धातु मे ॥३॥ सोमं॒ राजा॑न॒मव॑से॒ऽग्निं गी॒र्भिर्ह॑वामहे । आ॒दि॒त्यं विष्णुं॒ सूर्यं॑ ब्र॒ह्माणं॑ च॒ बृह॒स्पति॑म्॥४॥ त्वं नो॑ अग्ने अ॒ग्निभि॒र्ब्रह्म॑ य॒ज्ञं च॑ वर्धय । त्वं नो॑ देव॒ दात॑वे र॒यिं दाना॑य चोदय ॥५॥ इ॒न्द्र॒वा॒यू उ॒भावि॒ह सु॒हवे॒ह ह॑वामहे । यथा॑ नः॒ सर्व॒ इज्जनः॒ संग॑त्यां सु॒मना॒ अस॒द् दान॑कामश्च नो॒ भुव॑त्॥६॥ अ॒र्य॒मणं॒ बृह॒स्पति॒मिन्द्रं॒ दाना॑य चोदय । वातं॒ विष्णुं॒ सर॑स्वतीं सवि॒तारं॑ च वा॒जिन॑म्॥७॥ वाज॑स्य॒ नु प्र॑स॒वे सं ब॑भूविमे॒मा च॒ विश्वा॒ भुव॑नान्य॒न्तः । उ॒तादि॑त्सन्तं दापयतु प्रजा॒नन् र॒यिं च॑ नः॒ सर्व॑वीरं॒ नि य॑छ ॥८॥ दु॒ह्रां मे॒ पञ्च॑ प्र॒दिशो॑ दु॒ह्रामु॒र्वीर्य॑थाब॒लम्। प्रापे॑यं सर्वा॒ आकू॑ती॒र्मन॑सा॒ हृद॑येन च ॥९॥ गो॒सनिं॒ वाच॑मुदेयं॒ वर्च॑सा मा॒भ्युदि॑हि । आ रु॑न्धां स॒र्वतो॑ वा॒युस्त्वष्टा॒ पोषं॑ दधातु मे ॥१०॥
›शान्तिः। १-१० वसिष्ठः। अग्निः। त्रिष्टुप्, १ पुरोनुष्टुप्, २, ३, ८ भुरिक् ५ जगती, ६ उपरिष्टाद्विराड् बृहती, ७ विराड् गर्भा, ९ निचृदनुष्टुप्, १० अनुष्टुप्। ये अ॒ग्नयो॑ अ॒प्स्व॑१न्तर्ये वृ॒त्रे ये पुरु॑षे॒ ये अश्म॑सु । य आ॑वि॒वेशोष॑धी॒र्यो वन॒स्पतीं॒स्तेभ्यो॑ अ॒ग्निभ्यो॑ हु॒तम॑स्त्वे॒तत्॥१॥ यः सोमे॑ अ॒न्तर्यो गोष्व॒न्तर्य आवि॑ष्टो॒ वयः॑सु॒ यो मृ॒गेषु॑ । य आ॑वि॒वेश॑ द्वि॒पदो॒ यश्चतु॑ष्पद॒स्तेभ्यो॑ अ॒ग्निभ्यो॑ हु॒तम॑स्त्वे॒तत्॥२॥ य इन्द्रे॑ण स॒रथं॒ याति॑ दे॒वो वै॑श्वान॒र उ॒त वि॑श्वदा॒व्यः । यं जोह॑वीमि॒ पृत॑नासु सास॒हिं तेभ्यो॑ अ॒ग्निभ्यो॑ हु॒तम॑स्त्वे॒तत्॥३॥ यो दे॒वो वि॒श्वाद् यमु॒ काम॑मा॒हुर्यं दा॒तारं॑ प्रतिगृ॒ह्णन्त॑मा॒हुः । यो धीरः॑ श॒क्रः प॑रि॒भूरदा॑भ्य॒स्तेभ्यो॑ अ॒ग्निभ्यो॑ हु॒तम॑स्त्वे॒तत्॥४॥ यं त्वा॒ होता॑रं॒ मन॑सा॒भि सं॑वि॒दुस्त्रयो॑दश भौव॒नाः पञ्च॑ मान॒वाः । व॒र्चो॒धसे॑ य॒शसे॑ सू॒नृता॑वते॒ तेभ्यो॑ अ॒ग्निभ्यो॑ हु॒तम॑स्त्वे॒तत्॥५॥ उ॒क्षान्ना॑य व॒शान्ना॑य॒ सोम॑पृष्ठाय वे॒धसे॑ । वै॒श्वा॒न॒रज्ये॑ष्ठेभ्य॒स्तेभ्यो॑ अ॒ग्निभ्यो॑ हु॒तम॑स्त्वे॒तत्॥६॥ दिवं॑ पृथि॒वीमन्व॒न्तरि॑क्षं॒ ये वि॒द्युत॑मनुसं॒चर॑न्ति । ये दि॒क्ष्व॑१न्तर्ये वाते॑ अ॒न्तस्तेभ्यो॑ अ॒ग्निभ्यो॑ हु॒तम॑स्त्वे॒तत्॥७॥ हिर॑ण्यपाणिं सवि॒तार॒मिन्द्रं॒ बृह॒स्पतिं॒ वरु॑णं मि॒त्रम॒ग्निम्। विश्वा॑न् दे॒वानङ्गि॑रसो हवामह इ॒मं क्रव्यादं॑ शमयन्त्व॒ग्निम्॥८॥ शा॒न्तो अ॒ग्निः क्र॒व्याच्छा॒न्तः पु॑रुष॒रेष॑णः । अथो॒ यो वि॑श्वदा॒व्य॑१स्तं क्र॒व्याद॑मशीशमम्॥९॥ ये पर्व॑ताः॒ सोम॑पृष्ठा॒ आप॑ उत्तान॒शीव॑रीः । वातः॑ प॒र्जन्य॒ आद॒ग्निस्ते क्र॒व्याद॑मशीशमन्॥१०॥
›वर्चः प्राप्तिः। १-६ वसिष्ठः। वर्चः, बृहस्पतिः, विश्वे देवाः। अनुष्टुप्, १ विराट् त्रिष्टुप्, ३ पञ्चपदा परानुष्टुप् विराडतिजगती, ४ त्र्यवसाना षट् पदा जगती। ह॒स्ति॒व॒र्च॒सं प्र॑थतां बृ॒हद् यशो॒ अदि॑त्या॒ यत् त॒न्वः संब॒भूव॑ । तत् सर्वे॒ सम॑दु॒र्मह्य॑मे॒तद् विश्वे॑ दे॒वा अदि॑तिः स॒जोषाः॑ ॥१॥ मि॒त्रश्च॒ वरु॑ण॒श्चेन्द्रो॑ रु॒द्रश्च॑ चेततु । दे॒वासो॑ वि॒श्वधा॑यस॒स्ते मा॑ञ्जन्तु॒ वर्च॑सा ॥२॥ येन॑ ह॒स्ती वर्च॑सा संब॒भूव॒ येन॒ राजा॑ मनु॒ष्येऽष्व॒प्स्व॑१न्तः । येन॑ दे॒वा दे॒वता॒मग्र आय॒न् तेन॒ माम॒द्य वर्च॒साग्ने॑ वर्च॒स्विनं॑ कृणु ॥३॥ यत् ते॒ वर्चो॑ जातवेदो बृ॒हद् भ॑व॒त्याहु॑तेः । याव॒त् सूर्य॑स्य॒ वर्च॑ आसु॒रस्य॑ च ह॒स्तिनः॑ । ताव॑न्मे अ॒श्विना॒ वर्च॒ आ ध॑त्तां॒ पुष्क॑रस्रजा ॥४॥ याव॒च्चत॑स्रः प्र॒दिश॒श्चक्षु॒र्याव॑त् समश्नु॒ते। ताव॑त् स॒मैत्वि॑न्द्रि॒यं मयि॒ तद्ध॑स्तिवर्च॒सम्॥५॥ हस्ती मृ॒गाणां॑ सु॒षदा॑मति॒ष्ठावा॑न् ब॒भूव॒ हि। तस्य॒ भगे॑न॒ वर्च॑सा॒भि षि॑ञ्चामि॒ माम॒हम्॥६॥
›वीर-प्रसूतिः। १-६ ब्रह्मा। चन्द्रमा, योनिः, द्यावापृथिवी। अनुष्टुप्, ५ उपरिष्टाद् भुरिग्बृहती, ६ स्कंधोग्रीवी बृहती। येन॑ वे॒हद् ब॒भूवि॑थ ना॒शया॑म॒सि तत् त्वत्। इ॒दं तद॒न्यत्र॒ त्वदप॑ दू॒रे नि द॑ध्मसि ॥१॥ आ ते॒ योनिं॒ गर्भ॑ एतु॒ पुमा॒न् बाण॑ इवेषु॒धिम्। आ वी॒रोऽत्र॑ जायतां पु॒त्रस्ते॒ दश॑मास्यः ॥२॥ पुमां॑सं पु॒त्रं ज॑नय॒ तं पुमा॒ननु॑ जायताम्। भवा॑सि पु॒त्राणां॑ मा॒ता जा॒तानां॑ ज॒नया॑श्च॒ यान्॥३॥ यानि॑ भ॒द्राणि॒ बीजा॑न्यृष॒भा ज॒नय॑न्ति च । तैस्त्वं पु॒त्रं वि॑न्दस्व॒ सा प्र॒सूर्धेनु॑का भव ॥४॥ कृ॒णोमि॑ ते प्राजाप॒त्यमा योनिं॒ गर्भ॑ एतु ते । वि॒न्दस्व॒ त्वं पु॒त्रं ना॑रि॒ यस्तुभ्यं॒ शमस॒च्छमु॒ तस्मै॒ त्वं भव॑ ॥५॥ यासां॒ द्यौः पि॒ता पृ॑थि॒वी मा॒ता स॑मु॒द्रो मूलं॑ वी॒रुधां॑ ब॒भूव॑ । तास्त्वा॑ पुत्र॒विद्या॑य॒ दैवीः॒ प्राव॒न्त्वोष॑धयः ॥६॥
›समृद्घि-प्राप्तिः। १-७ भृगुः। वनस्पतिः. प्रजापतिः। अनुष्टुप्, २ निचृत्पथ्यापङ्क्तिः। पय॑स्वती॒रोष॑धयः॒ पय॑स्वन्माम॒कं वचः॑ । अथो॒ पय॑स्वतीना॒मा भ॑रे॒ऽहं स॑हस्र॒शः ॥१॥ वेदा॒हं पय॑स्वन्तं च॒का॑र धा॒न्यं ऽ ब॒हु। सं॒भृत्वा॒ नाम॒ यो दे॒वस्तं व॒यं ह॑वामहे॒ योयो॒ अय॑ज्वनो गृ॒हे॥२॥ इ॒मा याः पञ्च॑ प्र॒दिशो॑ मान॒वीः पञ्च॑ कृ॒ष्टयः॑ । वृ॒ष्टे शापं॑ न॒दीरि॑वे॒ह स्फा॒तिं समा॑वहान्॥३॥ उदुत्सं॑ श॒तधा॑रं स॒हस्र॑धार॒मक्षि॑तम्। ए॒वास्माके॒दं धा॒न्यं ऽ स॒हस्र॑धार॒मक्षि॑तम्॥४॥ शत॑हस्त स॒माह॑र॒ सह॑स्रहस्त॒ सं कि॑र । कृ॒तस्य॑ का॒र्यऽस्य चे॒ह स्फा॒तिं स॒माव॑ह ॥५॥ ति॒स्रो मात्रा॑ गन्ध॒र्वाणां॒ चत॑स्रो गृ॒हप॑त्न्याः । तासां॒ या स्फा॑ति॒मत्त॑मा॒ तया॑ त्वा॒भि मृ॑शामसि ॥६॥ उ॒पो॒हश्च॑ समू॒हश्च॑ क्ष॒त्तारौ॑ ते प्रजापते । तावि॒हा व॑हतां स्फा॒तिं ब॒हुं भू॒मान॒मक्षि॑तम्॥७॥
›कामस्य इषुः। १-६ भृगुः। मित्रावरुणौ, कामेषुः। अनुष्टुप्। उ॒त्तु॒दस्त्वोत् तु॑दतु॒ मा धृ॑थाः॒ शय॑ने॒ स्वे। इषुः॒ काम॑स्य॒ या भी॒मा तया॑ विध्यामि त्वा हृ॒दि॥१॥ आ॒धीप॑र्णां॒ काम॑शल्या॒मिषुं॑ संक॒ल्पकु॑ल्मलाम्। तां सुसं॑नतां कृ॒त्वा कामो॑ विध्यतु त्वा हृ॒दि॥२॥ या प्ली॒हानं॑ शो॒षय॑ति॒ काम॒स्येषुः॒ सुसं॑नता । प्रा॒चीन॑पक्षा॒ व्योऽषा॒ तया॑ विध्यामि त्वा हृ॒दि॥३॥ शु॒चा वि॒द्धा व्योऽषया॒ शुष्का॑स्या॒भि स॑र्प मा । मृ॒दुर्निम॑न्युः॒ केव॑ली प्रियवा॒दिन्यनु॑व्रता ॥४॥ आजा॑मि॒ त्वाज॑न्या॒ परि॑ मा॒तुरथो॑ पि॒तुः । यथा॒ मम॒ क्रता॒वसो॒ मम॑ चि॒त्तमु॒पाय॑सि ॥५॥ व्यऽस्यै मित्रावरुणौ हृ॒दश्चि॒त्तान्य॑स्यतम्। अथै॑नामक्र॒तुं कृ॒त्वा ममै॒व कृ॑णुतं॒ वशे॑ ॥६॥
›दिक्षु आत्मरक्षा। १-६ अथर्वा। रुद्रः, दिशः, १ साग्नयो हेतवः, २ सकामा आविष्यवः, ३ वैराजः, ४ सवाताः, प्राविध्यन्तः, ५ सौषधिका निलिम्पा, ६ बृहस्पतियुता अवस्वन्तः। त्रिष्टुप्, २, ५, ६ जगती, ३, ४ भुरिक्, १-६ पञ्चपदा विपरीतपादलक्ष्मा। ये॒३स्यां स्थ प्राच्यां॑ दि॒शि हे॒तयो॒ नाम॑ दे॒वास्तेषां॑ वो अ॒ग्निरिष॑वः । ते नो॑ मृडत॒ ते नोऽधि॑ ब्रूत॒ तेभ्यो॑ वो॒ नम॒स्तेभ्यो॑ वः॒ स्वाहा॑ ॥१॥ ये॒३स्यां स्थ दक्षि॑णायां दि॒श्यऽ वि॒ष्यवो॒ नाम॑ दे॒वास्तेषां॑ वः॒ काम॒ इष॑वः । ते नो॑ मृडत॒ ते नोऽधि॑ ब्रूत॒ तेभ्यो॑ वो॒ नम॒स्तेभ्यो॑ वः॒ स्वाहा॑ ॥२॥ ये॒३स्यां स्थ प्र॒तीच्यां॑ दि॒शि वै॑रा॒जा नाम॑ दे॒वास्तेषां॑ व॒ आप॒ इष॑वः । ते नो॑ मृडत॒ ते नोऽधि॑ ब्रूत॒ तेभ्यो॒ वो॒ नम॒स्तेभ्यो॑ वः॒ स्वाहा॑ ॥३॥ ये॒३स्यां स्थोदी॑च्यां दि॒शि प्र॒विध्य॑न्तो॒ नाम॑ दे॒वास्तेषां॑ वो॒ वात॒ इष॑वः । ते नो॑ मृडत॒ ते नोऽधि ब्रूत॒ तेभ्यो॑ वो॒ नम॒स्तेभ्यो॑ वः॒ स्वाहा॑ ॥४॥ ये॒३ऽस्यां स्थ ध्रु॒वायां॑ दि॒शि नि॑लि॒म्पा नाम॑ दे॒वास्तेषां॑ व॒ ओष॑धी॒रिष॑वः । ते नो॑ मृडत॒ ते नोऽधि॑ ब्रूत॒ तेभ्यो॑ वो॒ नम॒स्तेभ्यो॑ वः॒ स्वाहा॑ ॥५॥ ये॒३स्यां स्थोर्ध्वायां॑ दि॒श्यव॑स्वन्तो॒ नाम॑ दे॒वास्तेषां॑ वो॒ बृह॒स्पति॒रिष॑वः । ते नो॑ मृडत॒ ते नोऽधि॑ ब्रूत॒ तेभ्यो॑ वो॒ नम॒स्तेभ्यो॑ वः॒ स्वाहा॑ ॥६॥
›शत्रुनिवारणम्। १-६ अथर्वा। दिशः, रुद्रः, १ अग्निः असितः, आदित्याः, २ इन्द्रः, तिरश्चिराजी, पितरः, ३ वरुणः पृदाकुः, अन्नं, ४ सोमः, स्वजः, अशनिः, ५ विष्णुः, कल्माषग्रीवो वीरुधः, ६ बृहस्पतिः, श्वित्रं, वर्षम्। १-६ पञ्चपदा ककुम्मतीगर्भाऽष्टिः, (२ अत्यष्टिः, ५ भुरिक्)। प्राची॒ दिग॒ग्निरधि॑पतिरसि॒तो र॑क्षि॒तादि॒त्याल इष॑वः । तेभ्यो॒ नमोऽधि॑पतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु । यो॒३ऽस्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः ॥१॥ दक्षि॑णा॒ दिगिन्द्रोऽधि॑पति॒स्तिर॑श्चिराजी रक्षि॒ता पि॒तर॒ इष॑वः । तेभ्यो॒ नमोऽधि॑पतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु । यो॒३ऽस्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः ॥२॥ प्र॒तीची॒ दिग् वरु॒णोऽधि॑पतिः॒ पृदा॑कू रक्षि॒तान्न॒मिष॑वः । तेभ्यो॒ नमोऽधि॑पतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु । यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः ॥३॥ उदी॑ची॒ दिक् सोमोऽधि॑पतिः स्व॒जो र॑क्षि॒ताशनि॒रिष॑वः । तेभ्यो॒ नमोऽधि॑पतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु । यो॒३ऽस्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः ॥४॥ ध्रु॒वा दिग् विष्णु॒रधि॑पतिः क॒ल्माष॑ग्रीवो रक्षि॒ता वी॒रुध॒ इष॑वः । तेभ्यो॒ नमोऽधि॑पतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो नम॒ एभ्यो अस्तु । यो॒३ऽस्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः ॥५॥ ऊ॒र्ध्वा दिग् बृह॒स्पति॒रधि॑पतिः श्वि॒त्रो र॑क्षि॒ता व॒र्षमिष॑वः । तेभ्यो॒ नमोऽधि॑पतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु । यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः ॥६॥
›पशुपोषणम्। १-६ ब्रह्मा। यमिनी। अनुष्टुप्, १ अतिशक्वरीगर्भा चतुष्पदातिजगती, ४ यवमध्या विराट् ककुप्, ५ त्रिष्टुप्, ६ विराड्गर्भा प्रस्तारपङ्क्तिः। एकै॑कयै॒षा सृष्ट्या॒ सं ब॑भूव॒ यत्र॒ गा असृ॑जन्त भूत॒कृतो॑ वि॒श्वरू॑पाः । यत्र॑ वि॒जाय॑ते य॒मिन्य॑प॒र्तुः सा प॒शून् क्षि॑णाति रिफ॒ती रुश॑ती ॥१॥ ए॒षा प॒शून्त्सं क्षि॑णाति क्र॒व्याद् भू॒त्वा व्यद्व॑री । उ॒तैनां॑ ब्र॒ह्मणे॑ दद्या॒त् तथा॑ स्यो॒ना शि॒वा स्या॑त्॥२॥ शि॒वा भ॑व॒ पुरु॑षेभ्यो॒ गोभ्यो॒ अश्वे॑भ्यः शि॒वा। शि॒वास्मै सर्व॑स्मै॒ क्षेत्रा॑य शि॒वा न॑ इ॒हैधि॑ ॥३॥ इ॒ह पुष्टि॑रि॒ह रस॑ इ॒ह स॒हस्र॑सातमा भव । प॒शून् य॑मिनि पोषय ॥४॥ यत्रा॑ सु॒हार्दः॑ सु॒कृतो॒ मद॑न्ति वि॒हाय॒ रोगं॑ त॒न्व॑१ स्वायाः॑ । तं लो॒कं य॒मिन्य॑भि॒संब॑भूव॒ सा नो॒ मा हिं॑सी॒त् पुरु॑षान् प॒शूंश्च॑ ॥५॥ यत्रा॑ सु॒हार्दां॑ सु॒कृता॑मग्निहोत्र॒हुतां॒ यत्र॑ लो॒कः । तं लो॒कं य॒मिन्य॑भि॒संब॑भूव॒ सा नो॒ मा हिं॑सी॒त् पुरु॑षान् प॒शूंश्च॑ ॥६॥
›अविः। १-८ उद्दालकः। शितिपाद् अविः, ७ कामः, ८ भूमिः। अनुष्टुप्, १, ३ पथ्यापङ्क्तिः, ७ त्र्यवसाना षट्पदा उपरिष्टा द्दैवी बृहती ककुम्मतीगर्भा विराड् जगती, ८ उपरिष्टाद् बृहती। यद् राजा॑नो वि॒भज॑न्त इष्टापू॒र्तस्य॑ षोड॒शं य॒मस्या॒मी स॑भा॒सदः॑ । अवि॒स्तस्मा॒त् प्र मु॑ञ्चति द॒त्तः शि॑ति॒पात् स्व॒धा॥१॥ सर्वा॒न् कामा॑न् पूरयत्या॒भव॑न् प्र॒भव॒न् भव॑न्। आ॒कू॒ति॒प्रोऽवि॑र्द॒त्तः शि॑ति॒पान्नोप॑ दस्यति ॥२॥ यो ददा॑ति शिति॒पाद॒मविं॑ लो॒केन॒ संमि॑तम्। स नाक॑म॒भ्यारो॑हति॒ यत्र॑ शु॒ल्को न क्रि॒यते॑ अब॒लेन॒ बली॑यसे ॥३॥ पञ्चा॑पूपं शिति॒पाद॒मविं॑ लो॒केन॒ संमि॑तम्। प्र॒दा॒तोप॑ जीवति पितॄ॒णां लो॒केऽक्षि॑तम्॥४॥ पञ्चा॑पूपं शिति॒पाद॒मविं॑ लो॒केन॒ संमि॑तम्। प्र॒दा॒तोप॑ जीवति सूर्यामा॒सयो॒रक्षि॑तम्॥५॥ इ॑रेव नो॑प दस्यति समुद्र॑इव प॑यो मह॑त्। देवउ॑सवासि॑नाविव शितिपा॑न्नो॑प दस्यति ॥६॥ क इ॒दं कस्मा॑ अदा॒त् कामः॒ कामा॑यादात्। कामो॑ दा॒ता कामः॑ प्रतिग्रही॒ता कामः॑ समु॒द्रमा वि॑वेश । कामे॑न त्वा॒ प्रति॑ गृह्णामि॒ कामै॒तत् ते॑ ॥७॥ भूमि॑ष्ट्वा॒ प्रति॑ गृह्णात्व॒न्तरि॑क्षमि॒दं म॒हत्। माहं प्रा॒णेन॒ मात्मना॒ मा प्र॒जया॑ प्रति॒गृह्य॒ वि रा॑धिषि ॥८॥
›Bhakti Paath
Hanumān Chālīsā
हनुमान चालीसा
